पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ विशिष्टाद्वैतसिद्धिः प्रथमः न भ्रमस्य पृथगुपादानापेक्षा वर्तत इति । एवं च भ्रमस्य पृथगुपादान- गौरवप्रसङ्गादपि अद्वैतं न शास्त्रार्थ इति ज्ञेयम् । यच्च सत्यत्रकुनम्म्यमानत्वदूषणम् “सावयवत्वे अना· दिल्लभङ्गः । निरवयवत्वे परब्रह्मवत् ।" इति तत्र 'श्रुतेस्तु शब्दमूलत्वान्' इति सूत्रकारेणैव समाधानमुक्तं वेदितव्यम् । अजामिति हि तस्य अनादित्वमुच्यने । एकामित्येकत्वम् | बह्वीः प्रजा जनयन्तीमिति बहूत्पादकत्वं च । अतो धमिंग्राहकमानसिद्धं प्रधानस्य सावयवत्वं च अनादित्वं च । अत एव सावयवत्व नानादिभञ्जकम् । अपि तु कार्यत्वम् । यद्वा निरवयवस्यैव परिणामित्वं श्रुत्यभिमतम् | न च ब्रह्मणो निरवयवत्वादपरिणामित्वं ब्रूमः | अपि तु प्रमाणाभावात् । निर्विकार मिति तत्प्रतिषेधाच्च । यद्येवं नेप्यते भवद् भिमते अज्ञानेऽपि तुल्यं चोद्यम् । यत्तु तस्या काल्पनिकत्वात् पर्यनुवागायोगः। काल्पनिं- कत्वं च युक्तिविरुद्धत्वव्याप्यं मिथ्यात्वमितिः तत् तत्त्वविदः परिह- सन्ति । मुक्तमप्याक्रामेदिदमज्ञानम | युक्तिविरुद्धस्वभावत्वादिति । ३३. अज्ञातप्रतीतिः एवं जगतो मिथ्यात्वं वा तदुपादानतयां भावरूपमज्ञानं वा न साध- यितुं शक्यमिति दर्शितम् । अथापि तदुभयं सिद्धं मन्यमानः प्रतीतस्यै- वाज्ञानस्थ जगदुपादानत्वान् नत्प्रतीति साधयन्नाह - "सा चाविद्या साक्षिवेद्या । न तु शुद्धचित्प्रकाश्या । साक्षी चाविद्यावृत्तिप्रतिबिम्बित चैतन्यम् –” इति । अत्र शुद्धचैतन्यान् प्रतिबिम्बितचैतन्यस्य को विशेष: येन तस्य अस्थितं वेदितृत्वमस्य भवति । न खलु उपाधि प्रतिबिम्बे कश्चन विकार आधीयते । उपाधिस्थं मालिन्यं स्त्रप्रतिबिम्ब- स्थतया बिम्बभूतश्चेतनः पश्यतीति हि दृष्टम् | तु विम्बस्य शुद्धस्य वेदितृत्वं नास्तीति स्वयमाह । प्रतिविम्बस्य तु उक्तरीत्या भोपप- द्यते । बिम्बे अस्थितस्य विशेषस्य प्रतिबिम्बे उत्पत्त्ययोगात् । तस्माद-