पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः प्रथमः बतीत्यद्वैतवादिभिर्निरुच्यते, न तु बीजाकुरवदनादित्वमुच्यते” इति । तेन “पूर्वं पूर्वमयाज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासो- पयोग इत्यनादित्व'टू बीजाङ्करबन्न परस्पराश्रयत्वमित्यर्थः” इत्यध्वास- भामतीग्रन्थः प्रस्मृतोऽनवलोकितां वा । १२६ विवरणग्रन्थोऽपि —“आत्मनि कर्तृत्वभोक्तृत्वदोषसंयोग एवा- ध्यासः । तत्र भोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते | भावात् । कर्तृत्वं च रागद्वेषसंयोगाध्यासमपेक्षत | तद्रहितस्य कर्तृत्वाभावान् | दोषसंयोगश्च मोक्तृत्वमपेक्षते । अनुपभुक्ते अतज्जातीये वा रागाद्यनुप- पत्तेः । एवं बीजाङ्कुरवन् हेतुपरम्परयाऽनादित्वादध्यासस्य नैसगिकत्व” मिति । नन्वत्र सर्वत्र अमेव प्रवाहानादित्वमुक्तम् । न तु मूलाविद्याबाः | सा त्वेकाऽनादिरिति चेन्न | चिह्नदेवानादित्वे सत्यत्वा- पत्तेः । कल्पितत्वायोगादित्युपपादितमेतदधस्तात् । ३७. अज्ञानविषयत्वम् । प्रमाणलेशविरहाद् भावनमज्ञानं नाम किमपि नास्तीति तत्स्वरू- पस्यासिद्धिः सविस्तरमुक्ता । अयसतुरभावेन ब्रह्मणस्तदाश्रयत्वं न सम्भवतीति च निरूपितम् । तत एव तस्य तद्विषयत्वमपि नोपपन्नमिति वेदितव्यम् । किञ्च यदि तत् स्वाश्रयाज्ञानगोचरीभवति आत्मानमेव तन्न जानातीति स्यःन् | न चेष्टापत्तः | अनुपपत्तेः । अविद्याभ्युपगमवैयर्थ्या- पत्तेश्च । तथा हि । शुद्धचैतन्यस्य अहमिति स्वस्मै प्रकाशो विद्यते, न वा ? अद्ये स्वतः सिद्धस्य तस्य स्वानुभवस्य अध्यस्तेनाज्ञानेन कथं निवृत्तिः स्यात् येन आत्मानमहं न जानामीति प्रतीयात् | आत्मप्रकाशाप्रकाशाभ्यां व्याबाताच्च । एवं प्रतीतिरपि दुर्बचा । अन्त्ये ब्रह्म जडं स्वान् | स्वं वा इतरद्वा किञ्चिद् विपर्याीकुर्वत एव हि ज्ञानत्वम् | ब्रह्म च स्वेतरत् किमपि न विषयीकरोति । निस्सङ्गत्वात् । तत्र स्वमपि न विषयीकरोति चेत् तम्य ज्ञानत्वे किं प्रमाणम् | जडाद्वयावृत्तत्वात् ज्ञानत्वमिति चेन् .