पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अनिवेचनीयत्वे प्रमाणम् त्वं च विना नोपपद्यते इति तदुभयं कल्पयति । तदेवानिर्वचनीयत्व- मिति चेत् इदमिष्टमेवास्माकम् | ब्रह्मसत्यरूप्याभ्यां भिन्नत्वात् तुच्छ भिन्नत्वाच्च शुक्तिरूप्यस्य | ईदृशमध्यनिर्वचनीयत्वं सत्यरूप्यादेर्नास्ति । कालसम्बन्धित्वाबाध्यत्वादिरूपस्य सत्त्वस्य तत्र सत्त्वेन सद्विलक्ष गत्वा- भावात् । शुक्तिरूप्यवद् बाधाभावात् । ब्रह्मज्ञानवाध्यत्वस्वाद्या'यसिद्धेः । विशिष्य ब्रह्मात्मक सद्भन्नत्वनिवेशने इष्टापत्तेः । [स्त हि सत्येऽपि प्रापञ्चके वस्तुनि ब्रह्मविलक्षणत्वं च तुच्छविलक्षणत्वं च । वस्तुतस्तु शुक्तिरूप्यस्य धर्मिण एवाभावात् तस्यानिर्वचनीयत्ववर्मः कथं सम्भवेत्, यस्य लक्षणमुच्येत । तस्मान्निषेवप्रतियोगित्वान्यथानुपपत्तिरूपाऽर्थाप- त्तिरनिवांच्यत्वे प्रमाणमित्येतन्नास्ति । → आगमोऽप नास्ति । 'नासदासीन्नो सदासीत् इदानांम्' इत्येतद्ध सत्र_ प्रमाणमिध्यते । अत्र तदानीं प्रलयकाले असत् नासीत्, सपि नासीत् इत्युच्यते । एतेन अस्मिन् सृष्टिकाले असच्छन्दवाच्यं यत् किञ्चिदस्ति तत् इतः प्राक्तने प्रलयकाले नासीत् । सच्छन्दवाच्यं च यत् किञ्चिदिदानीमस्ति, तत् तदानीं नासीदित्युक्तं भवति । तत्र अपरि- यामितया, सर्वदा एकरूपतया सत्त्वात् चेतनवस्तु सदित्युच्यते । एत- द्विपरीतत्वात् अचेतनवस्तु अत्युच्यते । 'तदनुर्मावश्य, सच्च त्यच्चा- भवत्' इति सृष्टचनन्तरं ब्रह्मात्मकं चेतनाचेतनवस्तुजातं तावल्लोके बह्वस्त | ईदृश किमपि प्रलयकाले नासीदित्यर्थः । पृथिव्यन्तरिक्षादि- रूना लोका अनि नार्सान्नित्युपर्युच्यते । एवं समञ्जसोऽस्य मन्त्रस्यार्थः अस्मद्भाष्यकारैरभाषि । भवभिमतस्यार्थस्य तु गन्धोऽप्यत्र नास्ति । नांह सद्सद्विलक्षणं अनिवीयं वस्तु आदित्यर्थोऽत्र सुवचः। असत् नासत्, सत् नासीत् इति पृथगाख्यात श्रवणात् । सद्भिन्नमसद्भि- न्नमित्यर्थाङ्गीकारे लक्षणादोषाञ्च | नासीद्रज इत्यादिना वैरूप्याच्च । असन् निरुपाख्यं नासीत् । सत् सत्त्वेन निर्वाच्यमपि नासीत्, १४७