पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० प्रथमाः विशिष्टाद्वैतसिद्धिः पारमार्थिकम् उत प्रातिभासिकम् | नाद्यः | अपकृष्ट सत्ताकस्य उत्कृष्ट- सत्ताकधर्माधिकरणत्यायोगात् । अन्यथा मिथ्याभूतस्यापि विश्वस्य पार- मार्थिकसत्त्वप्रसङ्गात् । न च तत्र अद्वैतश्रुतिर्बाधिकेति वाच्यम् । अत्रापि नात्र रजतमासीदिति वाधकप्रतः सत्वात् । धमिंण इत्र धर्मस्यापि ह्यसद्भाचं एषा प्रतीतिर्गोचरयति । शुक्तित्वाश्रयोऽयम् । न रजतत्वाश्रयः इति हि बाधकप्रत्ययविषयविवरणं क्रियते । न द्वितीयः | तादृशरजतत्वो- त्पत्तौ नियामकाभावात् । लोहःवं वा सुवरवं वा कुतो न भवति । ननु शुक्तेरौज्ज्वल्य रूपं यद्रजतसादृश्यं तदेव नियामकमिति चेन्न । सम्बन्धाभावात् । शुक्तौ विद्यमानं रजतसादृश्यं तत्रोत्पद्यमानस्यानिर्वाच- नीयस्य रजतत्वं कथमापादयेत् । न हि गोसदृशगवचशरीरीत्पन्नस्य क्रिमेर्गोत्वं भवेत् । ननु रजतसादृश्यात् रजतस्मरणे जाते तद्भेद्महात् तत्तादात्म्यग्रहाद्वा इदं रजतं इति प्रतीतिर्जायत इति यूयं प्रतिपन्नो इयं प्रतीतिरेवास्माकं उत्पन्नस्यानिर्वचनीयस्य रजतत्त्रे तत्त्वेन ख्याने नियामिकेति चेन्न । न हि पूर्वोः पन्ने विषयेदृक्ता नियामकत्वं पश्चादुत्पद्यमा- नायाः प्रतीतेयुज्यते । किञ्च ग्राहकत्वमात्रं हि प्रतीतेः । न तु विपये विशेषापादकत्वम् । एतेन सत्यमिथ्यारजतयोः साधारणं रजतःवमिति प्रत्युक्तम् । मिथ्यावस्तुनो रजतत्वे हेत्वभावात् । उत्पादकाभावादपि अनिर्वचनीयं नोत्पद्यते न च ख्यायत इति द्रष्ट- व्यम् । शुक्त्यज्ञानं तदुत्पादक मिति चेन्न । शुक्त्यज्ञाने प्रमाणाभावात् । ज्ञातुरेव हि अज्ञानम् । न तु ज्ञेयस्य जडस्य | ज्ञात्रज्ञानादतिरिक्त मि विषयगतमज्ञानमिति चेन्न | दत्तोत्तर वात् | विषयाज्ञाने प्रमाणाभाव- स्योक्त वात् | विषयावच्छिन्न चैतन्यस्ये दमज्ञानमिति चेन्न | तस्य ज्ञातृत्वाभावेन अज्ञानाश्रयत्वायोगात् । ४४. सचान विध्यम् । अनिर्वचनीयस्यासिद्धचा तस्य सत्ता दूरोत्सारिता | प्रतीतिमात्रं हि