पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० विशिष्टाद्वैतसिद्धिः द्वितीय- कोऽहमिति प्रश्न इति विदाकन्तु विद्वांसः । तदेवं द्वितीयस्यापि हेतोर- सिद्धेः अनुमानमेतदप्रमाणम् । तत्त्वमसिवाक्यमखण्डार्थम् उपाधिभेदभिन्नेऽयें ऐक्यप्रांतपाद्- कत्वात्, घटरवं महारवमिति वाक्यवदिति कल्पतरूक्तानुमानान्तरसाध्ये त्वखण्डार्थत्रे पूर्ववत् पदवाक्यन्यायविरोधो नास्ति | घटावच्छिन्नमा- काशं महाकाशमेबतिवत् त्वद्न्तःकरणावच्छिन्नचैतन्यं परब्रह्मरूपचैतन्य - मेवेति बांधाभ्युपगमात् | किन्तु अस्मान् प्रति हेतुरसिद्धः । जोवपरयोर्व- स्तुत एव भिन्नत्वेन उपाधिभेदभिन्नत्वाभावान् । · वस्तुतस्तु "उपाधिभेदभिन्नोऽय येनैकः प्रतिपाद्यते । तदपि स्याद्- खण्डार्थं महत् खं कुम्भखं यथा ॥” इति कल्पतरुजन्माद्यधिकर॰एस्थे श्लोके, परिमले अस्मिन् सिद्धिग्रन्थे चोक्तरीत्या अखण्डार्थत्वसाधकम- नुमानं नाभिप्रेतम् । अखण्डार्थत्वस्य साध्यस्य हेत्वनतिरिक्तत्वात् । न हि संसर्गागोचरप्रमिति जनकत्वरूपम खण्डार्थत्वमत्रेष्टम् | दृष्टान्ते तद्वै - कल्यात् । घटाकाशं महाकाशमिति संसर्गावगाहित्वस्याभिमतत्वप्रतीतेः । तदपि स्यादखण्डार्थमित्य पिशब्देन समुच्चयपरेश "अविशिष्टम पर्यायाने - कशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ||" इति पूर्ववदत्रापि लक्षण मेवोच्यते, अन्यश्चेदं लक्षणमित्यवगमाच्च । तदिह उपाधिभेदभिन्नार्थैक्यबोधकत्वमखण्डार्थत्वमिति एतल्लक्ष ए मेवांच्यते, न त्वनुमानमिति ज्ञोयम् | "सत्यज्ञानादिर्ग: रेतत्संसर्गव्यतिरेकिरिण । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत् ||" इति काष्ठागतधाष्टर्यस्य दुरनुमानपटोश्चित्सुखाचार्यस्यानुमानं प्रति- ब्रूमः । पदार्थसंसर्गे प्र्मातृत्वेन किमपि वात्रयमङ्गीक्रियते, न वा ? आद्ये तत्र हेतोर्व्यभिचारः । संसृष्टसंसर्गातिरिक्त प्रामाण्यविरहेऽपि प्रमाण- त्वात् । अन्त्ये ‘अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादेः स्वर्गहोमादि-