पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ विशिष्टाद्वैतसिद्धिः द्वितीयः जगत्सृ गन्धशून्यत्वं, स्वाधीनसकलचेतनाचेतनत्वं परमकारुणिकत्वं यादितृत्वं इत्यादिर्भहतीयं गुणपरम्परा उपदिश्यत इति सर्वेषाम- तिरोहितमेतत् । एवं सत्यत्र निर्विशेषत्वापरपर्यायं निर्गुणत्वमुच्यत इति कथमास्थी- यते ? न ह्यत्र निर्गुणपदं धर्म सामान्यशून्यत्त्रपरतया योजयितुं शक्यम् | तस्य प्राकृतगुणत्रयरात्रितयैव प्रचुन । यथा “गुग्णभृन्नि- र्गुणो महान्” इति सहस्रनामसु । “निर्गुणं गुणभोक्तृ च” इति गीतासु च । अत्र भाष्यं च शाङ्करम् –“सत्त्वरजस्तमांसि गुणाः । तैर्वजितमपि सत्” इति । “अनादित्वान्निर्गुणत्वात्” इत्यत्र यद्यपि शाङ्करे ‘सगुणो हि गुणव्यथाद् व्येति । अयं तु निर्गुस्त्वाच्च न व्येति' इत्यव्ययत्वहेतुत्वेना- न्वयमभिप्रेत्व प्रसिद्धार्थ परित्यागेन व्याख्या तमिव भाति, तथापि श्री- भाष्ये “निर्गुणत्वात् सत्त्वादिगुणरहितत्वात न करोति, न लिप्यते देह- स्वभावैर्न लिप्यते” इति यथावदेव व्याख्यायि । गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । ● इति पञ्चमाध्याये जीवस्य सत्त्वादिगुणान्वयाक्तया ततः परमात्मनो वैलक्षण्योपदेशप्रकरणेऽस्मिन् तद्राहित्याभिधानस्यैव युक्तत्वाच्च । पूर्वत्रोत्त- रत्र च विस्तरेण बहुगुणोपदेशे क्रियमाणे मध्ये गुणसामान्यशून्य- त्वस्य बाधिनत्वेनानन्वयाच्च । निर्गुणस्येति चकारावगतसमुच्चयानुप- पत्तेश्च । न हि कारणःवगूढ। वस्थायित्वादेगु णगणस्य तद्भावस्य च समुच्चयः सम्भवति । तस्मात् कारणत्वादिवत् निर्गु त्वमपि कोऽपि धर्मो ब्रह्मणि प्रतिपाद्यते । कोऽसाविति निरूपणे प्रयोग प्राचुर्येण पुरस्स्फू तिंकत्वात् जीवलक्षण्यप्रतिपादनप्रकरणपर्यालोचनया च उक्तरीत्या प्राकृतगुणराहित्यरूप इत्यवचार्यते । उपनिषदो हि तदितरसमस्तवस्तु- विलक्षणतया ब्रह्म उपदिशन्ति । सा च विलक्षणता द्वेधा - इतरावृत्ति