पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः निगु गत्वम् १७७ किव्व सामान्यनिषेधेन विशेषविधेर्बाधो न सम्भवति । अन्यथा न हिंस्यादिति निषेधः अग्नीषोमीगपशुमन गोचरयेत् । यत्तु निर्गुस-- वाक्यस्य तत्परत्वेन प्रबलत्वात् तेन सगुणवाक्यबाध इति तन्न | निगु ए. वाक्ये सिद्धेहि तत्परत्वं प्राबल्यं वा अस्तिनास्तीति विमर्शा- वकःशः स्यात् । तत्तु अद्यापि न सिद्धम् । निर्गुणस्येति पदावगत- निषेधस्य को विषय इति हि सम्प्रति विचारः क्रियते । तथा सति निर्गुणवाक्यस्य तत्परतया प्रावल्यं कथमुच्यते । कारणत्वसर्वज्ञत्वादि- वादिनो विशेषविधयः । निर्गुण इति सामान्यनिषेधः । अत्र विरोधे कि मनुरोधेन किं नेयमिति संशयः । तत्र तत्परतया एकस्य प्राबल्यवचनं न युज्यते । तत्परत्वस्यैव विचार्यमाणत्वात् । क्रिमिदं यथाश्रुतं गुण- सामान्यनिषेधपरं, अथवा गुण वशेषविधानानुरोधात् सत्त्वादिगुण- ' विशेषनिषेधपरं, इति हि विचारयन्तो वर्तामहे । तत्र कथं स्वार्थपरत्वं निश्चितं कृत्वा प्राबल्यमुच्यमानं युज्येत । ु अथोच्यते—उपासनविविशेषत्वात् सगुणवाक्यानां न स्वार्थे तात्प- र्यम् | अनन्यशेषत्वात्तु निर्गुणवाक्यस्य तत्परत्वम् । अत इदं प्रबल- मिति । तद्युक्तम् । व्रीहिभिर्यजेत, सोमेन यजेतेत्यादिषु ब्रह्यादिषु तात्पर्याभावप्रसङ्गात् । यागार्थत्वेनान्यपरत्वात् । न चेष्टापत्तिः | द्रव्या- न्तरग्रहणापत्तेः । न च जर्तिलयवागून्याय इह सङ्गतः । 'अनाहुतिर्वै जतिंलाश्च' इति निन्दा हि तत्र तद्विधानाभावहेतुः | विकल्पस्य प्रकारा- न्तरेणैव सिद्धिश्च । यदि चान्यशेषत्वमेव तत्परत्वाभावहेतुः, क्षीरेण जुहोति' इति श्रुते अजीरेऽपि तात्पर्य न स्यात् । होमार्थत्वात् । दृषितञ्चायं अन्यार्थत्वप्रयुक्तता पर्याभाववादो भवद्भाष्य एव विस्तरेण 'भावं तु बादरायणोऽस्ति हि' इति सूत्रे । - “यदप्युक्तं मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादि प्रकाशन- सामर्थ्यमिति । अत्र । प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः