पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः समस्तद्देयप्रतिपक्षता च समस्तकल्याणगुरणाढ्यता च । समस्तवेदावगता यदीया समस्तभव्यप्रद एषमेऽस्तु ॥ ३. निराकारत्वम् । परस्य ब्रह्मणः पुरुषोत्तमस्य गुणापहवानन्तरं विग्रहापहवे : वृत्तः यथाशीलं प्रमाणवाक्यानियोजयति । 'वंदाहमेतं पुरुषं महा- न्तम् । आदित्यवर्णं तमसः परस्तात् ।' इति निर्विशेषवादिभ्यञ्चपेटां ददताव श्रुतिः तमसः परस्तात् देदीप्यमानं आदित्यवर्णं महान्तं पुरुष- महं वेत्या | प्रकृतिमण्डलमतीत्य वर्तमाने दिव्यलोके आदित्यवर्णेन वपुषा विभ्राजते सर्वेश्वरेश्वर इति घोषणमिह क्रियते । स्वरसवाहिनमिमं मुख्या अद्वैतविरुद्धतया उपेक्षमाण आह— 'आदित्यवर्णमित्यस्य अविद्या विलक्षणस्वप्रकाशस्वरूपप्रतिपादनपरतया उपास्त्रपरतया वा उप- पत्तेः । न च तमसः परत्वोक्तया उपासनापरत्वानुपपत्तिः । उपास्यविभू- होपलक्षितस्य तमसः परत्वोक्तेः, न तु रूपविशिष्टस्य ।' इति । अत्र प्रथमपक्षं तमसः परस्तादित्यस्य तमोऽवधिकपरत्वशालिप्रदेशवाचिनः विविलक्षणत्वे, आदित्यवर्णमित्यस्य स्वप्रकाशत्वे, पुरुषपदस्य स्वरूपे च लक्षणा दोषः स्पष्ट: । द्वितीयेऽपि 'तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय' इति साक्षान्मुक्ति फल[वद्या विषयत्वे श्रयमाणे तदितरफलोपासनाविषयत्वकल्पनं तमसः परस्तादित्यस्य रूपविशि ष्टान्वये स्वरसतः प्रतीयमाने तदुपलक्षितान्वयकल्पनं च दोषः । परस्ता- दित्यस्य देशवाचित्वान् तस्य स्वरूपेऽन्वयासम्भवात् योग्यार्थान्तरे लक्षणा चाश्रयणीया । एवञ्चात्रापि अद्वैतानुरोधेन तेनं क्रियते न श्रुत्त्यनुरोधेन तत्त्वनिर्णयः क्रियत इति स्पष्टम् । य एषाऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत इति श्रुत्या सूर्यमण्डल- स्यान्तः विज्ञक्षणरूपवशिष्टः परमात्मा वर्तत इति स्पष्टम च भाष्यकार एवान्तरधिकरणे- "यत्ततं हिरण्यश्मश्रुत्वादिरूपश्रवणं पर- १६० द्वितीयः