पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 14 )

'कामो यजेत’ इति देहमचिवेतमाश्रित्य प्रवृत्तानां तेषां अविवे मूलका ध्यासाश्रयेण प्रवृत्तत्त्वायोगात् । कथं तर्हि ब्राह्मण यजेतेति । न आत्मा ब्राह्मण वा अन्यो वा । उच्यते । ब्राह्मणः ब्राह्मणशरीरक इत्यर्थः। नन्वेवं गौणः शब्दः स्यान् ।शरीरवाचिनां शब्दानां शरीरि- पर्यन्तत्वस्य व्युत्तिसिद्धत्वत् । अथापि गौणः स एष्टव्य एव । सिंहो माणवक इत्यादिवत् । देहात्मभेदस्य प्रमाणसिद्धत्वेन व्यापकस्य तस्य निवृत्तो व्याप्यं गौणत्वमपि निवर्तत इति वक्तुमशक्यत्वात् । ‘जन्तु- जन्यशरीरिणः इति निघण्टुपाठेन हि शरीरमभेदः सुप्रसिद्ध इति ज्ञायते ।

ननु ब्राह्मणशरीरक इत्यर्थो लक्षणया, न तु सिंहो मरणवक इतिच गौण्येति चेत् कामं तथा । जघन्यवृत्त्यभिप्रायेण तु गौणत्ववाचोयुक्तिः । नन्वारोपितार्थवृत्तित्वं गौणत्वम् । माणवके सिंहत्वमारोप्य तद्वाचितया प्रयोगात् |सहशब्द सत्र गौण भवति । एवमात्मनि ब्राह्मणत्वमारोप्य तद्वाचित्वेन प्रयुज्यमानो ब्राह्मणशब्दोऽपि गौण इति सुवचमिति चेन्न । प्रशंसातार्यात् तत्र सिंहत्वारोपोऽभिमतो ज्ञायते । प्रकृते तु आरोपगमकं किमपि नास्ति । अतः केव नलक्षणैव । अथवा अस्त्वारोपः । तथापि नायमविद्यारूपो भवदभिमताऽध्यासः। विद्वदाश्रितत्वात् । न हि सिंहो । माणवक इति वदन् अज्ञो वा भ्रान्तो वा । तथैव ब्राह्मण इति वदन्नपि । तस्माद्यमध्यासो विवेदमूलत्व, विद्यारूप एव नाविद्यरूपः । वस्तुतस्तु आरोपितव्राह्मणत्ववतः ब्राह्मणशब्दर्थत्वे स्वस्मिन् ब्रह्मणस्त्वमारोप्य क्षत्रियोऽपि ब्राह्मणधर्मेषु अधिक्रियेत । अतो ब्राह्मणशरीरक इत्येव वेदे विवक्षितोऽर्थः बोद्धारोऽपि तमेवार्थं बुध्यन्त इति ज्ञेयम् ।

पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकल वेति बाह्यधर्माध्यासोऽप न भ्रमरूपः । पुत्रभार्यादेः आन्ध्ये जाते तं हस्ते गृहीत्वा -नयन् पुरुषः न हि स्वयमेध इति भ्रमितुं शक्नोति । स्वस्य आन्ध्ये जाते ९ ४