पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वियीयः पूर्वावस्थाविशिष्टं तदेव द्रव्यं तत्कार्यं प्रत्युपादानमिति । न चेदं अव- स्था सामान्यशून्यस्य ब्रह्मणः सम्भवति । १६८ अस्मन्मते तु तेजोऽवस्थं ब्रह्म अववस्थं स्वं प्रति कारणमिति भवत्युपादानम् । न च तेजोवस्था अबवस्था च अचेतनप्रकृतिगता, न तु ब्रह्मगता तो ब्रह्मण उपादानत्वासम्भवो भवतोऽपि समान इति वाच्यम् । तेजोनियन्तृत्वावस्थाविशिष्टं ब्रह्म कारणं, अनियन्तृत्वावस्था- विशिष्टं कार्यमित्युपपत्तेः । न चैवं ब्रह्मणो विक्रियापतिः । कर्माधीनस्व- रूपस्वभावान्यथाभावस्यैव विक्रियापदार्थत्वात् । स्वतन्त्रस्य परमात्मनः स्वेच्छाधीनस्य सङ्कल्पाद्यन्यथाभावस्य विक्रियात्वाभावात् । प्रत्युत ऐश्व- र्यविकासहेतुतया गुरणत्वात् । तदैक्षतेति सृष्टचारम्भकाले ईक्षणं हि श्रुतम् । अन्तः प्रविष्टः शास्त्रेति शासनं च । तस्मात्तइतिरिक्त विषयत्व- मेव निर्विकारत्वश्रुतेः । नन्बेवमपि ब्रह्मण उपादानत्वं दुर्घटमेव | चेतनाचेतनात्मकस्य कार्यस्य तदारव्वत्वाभावात् । न हि ब्रह्मस्वरूपं तद्रूपेण परिणमते । स्वरूपस्यापरिणामित्वाभ्युपगमात् । सर्वदा एकरूपतया सत्त्वरूपसत्यत्व- श्रुतेरिति चेन्न । पृथसिद्ध कारणत्वमुपादानत्वमिति लक्षणान्तरराश्रय- गात् । सर्वास्वप्यवस्थासु ब्रह्माश्रितमेव हि सर्वं वस्तु | तेन सर्वं कार्य प्रति अपृथसिद्धं कारणं ब्रह्म भवति । न च विभौ सर्वकार्यकारणेच कालेऽतिव्याप्तिः । एकद्रव्यत्वाधाराधेयभावान्यतर सम्बन्धेनापृथसिद्धे- विवक्षितत्वात् । 6 यद्वा विशिष्टं प्रति विशिष्टं कारणम् । न तु विशेषणमात्रं प्रति विशेष्यमात्रम् | तथा हि । कार्यकारणयोरनन्यतया जगत्सामानाधिकर- ण्येन सदेव सोम्येदमिति निर्दिष्टं यत् सर्वकारणं सत्, तत् ईक्षति- श्रवणादिभिर्हेतुभिश्चेतनमिति तावन्निश्चितम् | न च चेतनस्य तेजोजला- दिरूपेण परिणामः सम्भवति । अतः अव्यक्तशरीरकमेव ब्रह्म सच्छन्द-