पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भेदः २१५ विभागवचनं उपपद्येत । घटपटभेद उभयोरावयोः सिद्धः । स भवतो व्यावहारिकः । मम तु तात्त्विक एव । अयमेकः प्रतीयमानो भेदो बाधित इति भवता साधनीयम् | नेत्यस्माभिः । तत्र तात्त्विक व्यावहारिकभेद- कल्पनाऽनवकाशा | कल्पनायां च सिद्ध एव भेदः। तथा च वादे प्रव- तैमानेन भवता स्वपरभेदमङ्गीकृत्यैव प्रवृत्तेः भवदीयं भेदखण्डनपरं सर्वं वाक्यं माता मे वन्ध्येतिवत् बाधितार्थमेव । इदमलं सद्यों भवतो निग्रहाय । तथापि तत्त्वनिरूपणकुतूहलाद् ब्रूमः । योऽयं घटे पटभेदोऽनुभूयते स कथमपह्न येत । न ह्ययमनुभवः शुक्तिरजतानुभववद भ्रमः | परीक्षितप्रामाण्यत्वात् । स्वरूपं वा धर्मों वा अन्यो वेति निरूपणानर्हतया नास्तीति निश्चीयत इति चेन्न । कारण- दोषबाधकप्रत्ययविरहात् ज्ञानानां स्वतः प्रामाण्याच्च विपयसत्ताया अव श्यम्भावात् । अन्यथा घटपटादिकमपि नास्तीति स्यात् । न चेष्टापत्तिः । विशिष्य भेदनिराकरणसम्भ्रमस्यायुक्तत्वान् | घटादेः शुक्तिरजतवैलक्ष- ग्याभ्युपगमविरोधाच्च । तस्मात् घटादिप्रत्ययस्व घटादिवत् तद्भेदप्रत्य- यस्य भेदोऽपि विषयो भवताऽव्यङ्गीकर्तव्य एत्र । एवं सिद्धे भेदे सक इति निरूपणं भवतोऽपि भारः, न त्वस्मदादीनामेव । यत्तु अस्माकमविद्यासामर्थ्यात् सर्वानुपपत्तिविधूननोपपत्तिः । न हि मायायामसम्भावनीयं नाम । तथा च परस्पराश्रितमपि इन्द्र- जावद् दर्शयिष्यति । इति तत् किं स्वस्थबुद्धिनैवोच्यत इति संशेमहे | अश्वार्थी भवान् महिष- दर्शने कुतो निवर्तते । सर्वत्र्यवस्थोल्लङ्गिनी हि माया अश्वभेदं निवर्त्य महिषमध्यश्वं कर्तुमष्टे । न हि मायायामसम्भावनीयं किञ्चिदस्ति । तत्र माया भेद निवर्तन| भेददर्शने न करोति । तेन निवृत्तिरिति चेत् तर्हि तत्र मायासम्बन्धो नास्तीति निश्चीयते । यथा च मायाव्यपदेशेन भेद- दूषणनिस्तारो दुर्लभः । अभ्रान्ताः सर्वे अश्वार्थिनः महिषदर्शने निय-