पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः रिहार्य भोगसाङ्कर्यम् ।

अथ यत् “ऋिश्व उपाधिकल्पितांशजीवानां वाऽनुसन्धानमापद्यते, अंह्मणां वा” इत विकल्प्य किदुच्यने तत् जीवब्रह्मणोः स्वरूपस्य ईदृशस्य परैरनभ्युपगमात् तान् प्रनि एवं विकलायोगान्निर- स्तम् । यच्च "पादावचिन्नदुःखस्य हस्तावच्छिन्नेऽनुत्पादवत् चैत्रीय- दुःखाद्यनुसन्धानस्य मैत्रेऽनुत्पादः | हस्ते दुःखप्रय!जक सामग्रोविरहवत् मैत्रे अनुसन्धानप्रयोजक्रोपाध्यैक्याभावान् ।" इति तन् शब्दान्तर- प्रयोगमात्रम्, न त्वपूर्वयुक्तिविशेषप्रदर्शनम् । आत्मैक्ये सति हस्तपाद - भेदवत् अन्तःकरणभेदोऽषि नानुसन्धानहेतुनि परे श्रावन्त । तत्र 'अनुसन्धानप्रयोजकोपाध्यैक्याभावान्' इत्युक्तिमात्रं न शोभते । पादे यद्यपि वेदना नावयवान्तरे, तथाऽपि 'मे' इति स्वकीयत्वानुसन्धानं ऋत्र न विहन्यने । तथा शरीरान्तरे 'मे' वेदना इत्यनुसन्धानं स्यादेव यद्यात्मैक्यं स्यात् । एतेन 'तवात्मभेदेनेव अवच्छेदका ज्ञानादिभेदेन मम व्यवस्थोपपत्तिः' इत्येतन्निरस्तमिति सुग्रहम | आत्मभेदेहि अन्य- दुःखस्यान्यस्मिन् अवर्तमानत्वात अनुसन्धानं युक्तम् । अवच्छेदक- भेदे तु तस्मिन सत्यपि सर्वदुःखं तदीयमेवेति अननु सन्धानं नोपपद्यते । जीवभेदः २२५ अथ यत् उपाधेर्भेदकंत्वं नापपद्यत इति परैविकल्प्योक्तं दूषणं परि- हरता उक्तं – “सर्वविकल्पासहत्वेन मिथ्याभूतस्यैवोपाधेमिंग्य भेदप्रयो जंकत्वस्य मागेवोपपादितत्वात् ।" इति । तेन भूयः स्वपक्षस्य सर्वथाऽनुवपन्नता : स्वहस्ताक्षरदानेन विहिता सुनिष्ठिता || युक्त्याभासा अपि यदा न स्युरन्त तदा भरम् । अविद्याशिरांस न्यस्य स्वात्मरक्षा गवेष्यते ॥ एवं जीवेशयोः जीवानां परस्परं च भेदां दुरपह्नव इति दर्शितम् ।. .