पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ विशिष्टाद्वैतसिद्धिः द्वितीयः एवमेव जडात् जीवस्य ब्रह्मणञ्च, जडवस्तूनां परस्परं च भेदो दुरपह्नव इति तैरेव न्यायैः ज्ञातुं शक्यमति पुनस्तत्र विस्तरं न कुर्मः। १२. भेदानुवादः । एवं यथा प्रत्यक्षानुमानाभ्यां तथा श्रुत्याऽपि भेदः सिद्धयति । द्वा सुपर्णा, य आत्मनि तिष्ठन् इत्याद्भिः जीवेश्वरभेदः, नित्यो नित्यानां चेतनश्चेतनानामिति जीवानां मिथः, तेभ्यः परस्य च भेद, अजी कि इति जीवानां, मिथः, एषां प्रधानाच्च भेदो हि गम्यते । अत्राह | द्वा सुपति मन्त्रावगती भेदः काल्पनिकः । द्वौ चन्द्रमसावितिवत्, इति । तत्र पृच्छामः । किं स्वरससिद्धान्तमिदं काल्पनिकभेदपरत्वं अथवा अन्याय्यमेव आते । न तावदाद्यः कल्पो युज्यते । तत्त्वमसा- त्यत्राभेदस्थापि काल्पनिकत्वापातात | नान्त्यः | अन्याय्याश्रयणे प्रमा- णाभावात् । अभेदश्रुतिर्बाधकप्रमाणमिति चेत् भेदश्रुतिरेव तद्द्बाधिका कुतो न भवेत् । प्रत्यक्षसिद्धभेदानुवादकत्वेन इयं श्रुतिनत्रलेति चेन्न । प्रत्यक्षसिद्धभेदविरुद्धार्थऋत्वेन अभेदश्रुतेरेव हीनबलत्वात् । न च षड्विधतात्पर्यलिङ्गोपष्टव्धत्वात् तस्याः प्राबल्यम् । नाहमीश्वर इति दृढप्रत्यक्षबलेन अभेदश्रुतिश्रवणानन्तरक्षण एव अर्थान्तर एवास्यास्ता- पर्यमिति निश्चयोदयेन अभेदतात्पर्यलिङ्गानामपेक्षाया एव विरहात् । सतामपि अपेक्षाविरहेण अनुपयोगात् । वस्तुतोऽसत्त्वाच्च । वस्तुतस्तु शास्त्रेण तिद्धचन्नीश्वरः चेतनाचेतनाभ्यामन्यत्वेनैव सिद्धच तीति भेदोऽपि शास्त्रगम्य एव | श्रुतस्य तस्य प्रत्यक्षानुभवोऽपि लोके भवति । न हि ईश्वरम जानतां नाहं स इति प्रत्ययः सम्भाव्यते | तज्ज्ञानं च श्रुत्या | सा च. 'द्वा सुपर्णा' न त्वेक एव । तयोरेकोऽयं जीवः कर्म- फलभुक् । ततोऽन्यस्तु न कर्मफलभुक् । अभिचाकशीति | सततोज्ज्वलः - सर्वेश्वरः' इति जीवान्यत्वेनैव तमुपदशति । वाक्यान्तरेष्वप्येवं •