पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ विशिष्टाद्वैत सिद्धिः द्वितीय मात्रं वा कर्तृकारकं वा तत् त्वमित्यत्र प्रथमार्थ इत्युच्यते तेन कस्ते लाभः। न ह्यभेदप्राधान्यं तेन लभ्यते । यत्तु प्रोद्गातृणामित्यत्र उद्गातृपदे यौगिकत्वपक्षं ब्रह्मानन्दः खण्डयति तत्र भाट्टदीपिकायां खण्डदेवोक्तं समाधानमनुसन्धेयम् । एवमेकस्मिन् पदे लक्षणया सामानाधिकरण्यनिर्वाहाऽपि श्रेयान् । न तु जीवेश्वराभेदः कथमपि तत्त्वमसिप्रतिपाद्यः । वस्तुतस्तु नात्र लक्षणा । सर्वेषां शब्दानां तत्तद्रूपविशिष्टपरमात्मनि मुख्यवृत्तत्त्वात् । देवमनुष्यादिशब्दाः किल तत्तच्छरीरिवाचिनः । तथैव यः परमः शरीरी तर्माप तेऽभिद्धति । अपृथक्सिद्धविशेषणवाचिनां शब्दानां विशेष्य- पर्यन्तत्वस्य लोके व्युत्पन्नत्वात् । शास्त्रेण सर्वशरीरिणः परमात्मनः सिद्धौ तयैव व्युत्पत्त्या सर्वेषां शब्दानां तत्पर्यन्ताभिधायित्वस्य स्वयं सिद्धेः | परिभाषाकारस्तु लक्षणां विनैवाभेदान्वय इत्याह “वयं तु ब्रूमः सोऽयं देवदत्तः तत्वमसीत्यादौ विशिष्टवाच- कानां पदानां एकदेशपरत्वेऽपि न लक्षणा । शक्त्युपस्थितयोविं शिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययाः शक्त्युपांस्थतयोरेवान्व- याविरोधात् । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्व- स्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव स्वातन्त्र्येणोपस्थि- तये लक्षणाभ्युपगमः । यथा नित्यो घट इति । अत्र घटपदात् घटत्वस्य स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपदस्य घटत्वं लक्षणा । एवमेव तत्त्वमसीति वाक्येऽपि न लक्षणा ! शक्त्या स्वातन्त्र्येणोपस्थितयोः तत्त्वंपदार्थयोरभेदान्वये बाध- काभावात् । अन्यथा गेहे घटः, घटे रूपं, घटमानयेत्यादौ घट- त्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वे लज्ञणैव स्यात् । तस्मात् तत्त्वमसीति वाक्ये