पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः द्वितीय- न्यायविद्भिरुच्यमाने अस्मत्पक्षानुरोधेन दृष्टान्ता अन्यथोपपद्यन्त इति प्रत्यवस्थानं कथं युज्येत। तथा च एषां दृष्टान्तानां भेद्गर्भाणामनुरोधे- नापि अद्वैतं मिथ्येति सिद्धयति । २४० 1 वृहदारण्यके 'ब्रह्म वा इदम आसीत् । तदात्मानमेवावेदहं ब्रह्मा- स्मीति वाक्येऽपि अभेदपरत्वे न किञ्चिद् गमकम् । इदमिति लांकावगतं सर्वमनू तस्य ब्रह्मात्मकत्व विधायकत्वात् । इदमिति हि चेतनाचेतने उभे अप्युच्येते । तत्र अचेतने ब्रह्मानेदो नेष्टः । तद्वदेव चेतनेऽपि नेष्टव्यः | बाधात् । पूर्वत्र जडत्वाजडत्वाभ्यामिव उत्तरत्र अज्ञत्वप्रा- ज्ञत्वाभ्यां भेदस्य निश्चितत्वात् । वैरुप्याच नहि एकरूपो ब्रह्माभेद- श्चेतनाचेतनयोः सुवचः । न चैकपदोपात्तेष्वर्थेषु भिन्नरूपाभेदो- पदेशो न्याय्यः | 'तद्यो यो देवानां प्रत्यबुध्यत स एव तद्भवत् । तथर्षीणाम् । तथाः मनुष्याणाम्' इति वाक्येऽप्युपरितने जीवानां बहुत्वेन परस्परभेदस्य, प्रत्यबुध्यतेत्यनेन वेद्यतया वंदितृभ्यस्तेभ्यो ब्रह्मभेदस्य चावगमात् 'स एव तद्भवत्' इत्युपसंहारे तदविरोधेन तदात्मकोऽभवदित्येवार्थः । तदा- त्मकत्वानुभवं लेभ इति भावः । मुक्तो बभूवेति यावत् । न तु तदभिन्नोऽ. भवदिति । बाधात् । अहंमनुरम सूर्यश्च' इत्यस्मन् वाम- देववाक्ये अहमित्यन्तर्यामिण एवाभिवानम् । यत्तु 'पश्यन प्रतिपेदे' इति वोधनिमित्तब्रह्मभावस्यात्र प्रतीतेर्नान्तर्यामिपरत्वमिति । तन्न | विरोधाभावात् । बोधनिमित्तब्रह्मभावपरत्वस्य अन्तर्यामिपरत्वम्य चैक- त्वात् । मदन्तर्यामी कश्चिदस्तीति बोधे सत्येव हि मिति तस्य निर्देश: सम्भवी । ततश्च ब्रह्मभावः । सर्वभावो वा । 'तद्भवत्' इत्यस्य हि सर्वमभवदित्येव स्वरततोऽर्थः । एवंविधबोध एव 'शास्त्रदृष्ट्या तूप- देशः' इति सूत्रेऽभिसंहितः । तदुक्तं श्रीभाध्ये - एतदुक्तं भवति । अनेन जनाउनुप्रविश्य ऐतदात्म्यमिदं