पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रमाणम् २४६ अवानगीवयोरिव शङ्कनीयस्वरूपस्वभावान्यथाभावरूपो भेदो निषिध्यतः इत्युपपादनीयम् । उपक्रमोक्तभगवन्कल्याणगुगचेतनाचेतनात्मकसकल- प्रपञ्चचाधस्थान्चास्यत्वेन भेदस्य सर्वप्रतियोगिकत्वासम्भवाच्च तथोप- पत्तिर्वतव्या | उपपन्नतरमर्थान्तरं चाहुः । 'प्रतिष्ठां विन्दते | अथ सोऽभयं गतो भवति' इति पूर्व प्रतिष्ठयाऽभयमुक्तम् । तत्र प्रतिष्ठा नाम अविच्छिन्न- · स्मृतिसन्ततिरेव | अत्र श्रद्धावर्धनाय व्यतिरेकेऽनथः प्रकृतवाक्ये उच्यते । एतस्मिन् ब्रह्मणि अल्पमप्यन्तरं स्मृतिविच्छेदं यदा कुरुते तदा भयं भवतीति । ‘एको देवः सर्वभूतेषु गूढः' इतोदमपि नाद्वैते प्रमाणम् । 'आत्मनि तिष्ठन्' इतिवत् सर्वभूतेषु गूढ इति भेदावगमात् । भूतशब्दस्य प्राणि- वाचित्वस्य कोशसिद्धत्वात् । चेतनाधिष्ठितप्राणादिवाचित्वेऽपि विशेष्य- विशेषभावमात्रभेदात् । चेतनाधिष्ठित प्राणशरीरादिषु गूढ एको देव इत्युक्तावपि हि चेतनभेदः सिद्धयत्येव | चेतनस्य शरीराविष्ठातुर्दः खि त्वात् । तत्र गूढस्य तु देवत्वात् । 'अनश्नन्नन्या अभिचाकशीति' इत्युक्तरीत्या द्योत मानत्वात् । देवत्वे सत्येव गूढत्वात् । न च एक इत्यनेन जीवाभेदो वोध्यते । तस्य सर्वभूतेषु एक एव गूढ इति शरीरादिभेदप्रयुक्तभेदाभाव- परत्वात् । पूर्वोत्तरपरामर्शेन अस्या उपनिषदो भेदपरत्वस्योपयादि- तत्वाच्च । " यावन्माहं तु भेदः स्याज्जीवस्य च परस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावतः ॥” इत्यादिस्मृतावनि व्यक्त क्यं नोच्यते । किन्तु जीवस्य परस्य च कर्म- सम्बन्धासम्बन्धज्ञानसङ्कोचा सङ्कोच सुखदुःखभोगाभोगादिरूपो यो भेदः तस्य संसारदरायां वर्तमानस्य निश्शेष कर्मक्षयान्निवृत्तिरुच्यते । व्यावतं- कधर्मो हि भेदः । स च प्रकृते संसारित्वासंसारित्वरूपी विवक्षितः । १७