पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः १६. ऐक्यानुमानम्

अथानुमानेन जीवेक्यं साधयितुं प्रवर्तते 1 तत्तु • सर्वश्राऽशक्यमिति इंयतैव निरूपणेन शक्यमवगन्तुम् | जीवाः परमात्मनस्तत्त्वतो न भियन्ते, श्रात्मत्वात्, परमात्मवत् इत्यादि हि सर्वं तदैक्यानुमानं प्रत्यक्ष- श्रुतिभ्यां बांधितम् । नाहमीश्वर इति भेदप्रत्यक्षस्य दुरपलपत्वात् । अन्योऽन्तर आत्मानन्दमयः' 'तयोरन्चः निप्पलं स्वःइत्ति' इत्यादि- श्रुतिवाक्यैश्च भेदस्य कण्ठोत्तत्वात् । नन्वयं व्यावहारिको भेदः | तात्त्वि- कभेदाभादस्तु साध्यत इति चेन्न | दत्तोत्तरत्वात् | अबाधित प्रत्यक्षावग- ताद्न्यस्य तात्त्विक भेदस्याप्रसिद्धत्वेनासाधनीयत्त्वात् । तत्प्रसिद्धच प्रसि- द्धिभ्यां व्याघाताश्च । यदि हि स प्रसिद्धः तदभावः साधयितुं न शक्यः । अथा प्रसिद्धः अप्रसिद्ध प्रतियोगिकोऽभावः कथं साध्येत । २५१ घटो हिमालयान्न भिद्यत, पृथिवीत्वात् हिमालयवत् इत्याभास- साम्यं च । अत एवाप्रयोजकत्वं च । यत्तु श्रुत्यनुग्रहान्ने दोषाविति तत् तन्निग्रहस्यैवोपपादितत्वान्निरस्तम् । एवं जीवेक्यानुमानदौस्स्थ्य- मपि द्रष्टव्यम् । विमतानि शरीराणि चैत्राधिष्ठितानि शरीरत्वात्, सम्मतवत्, इत्यत्र हि 'नेमानि मम शरीराणि इत्यबावितानुभवन बाधः। 'विमतानि शरीराणि न चैत्राविष्ठितानि तद्भांगानायतनत्वात् घटवदति सप्रतिसाधनत्वम् । महीमहीधरादिकं सर्वं चैत्राधिषि तं, वस्तुत्वात तच्छरीरवत्, इत्याभाससाम्यं च , विदुषामुपहास्यानि प्रयुज्यन्ते पुनःपुनः । असम्यञ्च्यनुमानानि तस्थुषा दुःस्थिते मते || भेदो मिथ्या भेदत्वात् दृश्यत्वाद्वा, चन्द्रभेदवत्, इतीदमनुमानं बादिनं प्रति किमर्थं प्रयुज्यते । घटो मिथ्या घटत्वात् दृश्यत्वाद्वा, कल्पि- तघटवदित्यनुमानास्य को विशेषः । तस्यापि प्रमाणत्वादविशेष एवेति