पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः निवतक्रम एतद्भयाऽविद्याध्वंसस्य चरमवृत्तिरूपत्वाश्रयणं साध्यसाधनभावविरो धादनुपपन्नम्। सकललोकध्वंसः तदन्तर्गतैकव्यकमात्ररूप इतिवदुप- हास्यं च । २८३ अथ यच्चरमवृत्त्युपत्तक्षितत्वमात्मन उच्यते तदपि विमर्शनीयम् । अमन कश्चन विशेषो बोध्यते न वा । आद्ये तस्य सत्यत्वे अद्वैतहानिः । मिथ्यात्वे मुक्तावप्यविद्यानुवृत्तिः । अन्त्ये आत्मस्वरूपं मुक्तिरित्येतावदुक्तं स्यात् । तस्य पूर्वमपि सत्त्वान्मुक्ति संसारयोरविशेषः । उपलक्षितत्वं च विशेषणं वा उपलक्षणं वा । नाद्यः | तेनैव सविशेषत्वा- पत्तेः । नान्त्यः । उक्तरीत्याऽविशेषप्रसङ्गान् । “एवमद्वैत सिद्धान्तरक्षाबन्धधुरन्धरैः । इयं मुक्तिरिति प्रोढैरपि वक्तुं न शक्यते ॥” २. निवर्तकम् । एवं वस्तुस्थितौ सत्यामपि सामान्यतः अविद्यानिवृ त्तर्मुक्तिरिति शक्यं प्रतिपत्तुम् । तत्राविद्याया निवतकं प्रतिशयन् वृत्त्युपारूढचितो वा चित्प्रतिबिम्बधारण्या वृत्तेर्वा निवर्तकत्वमित्याह । नेदमुपपद्यते । विशेषण विशेष्यभावभेदेऽपि अत्र स्थितं द्वयमेव - चिञ्च वृत्तिश्च । अत्र विषयः केवल चिन्मात्रमिति मूलकारः | व्याख्याता तु वृत्तेरपि विषय- त्वमस्त्येवेत्येतमपि पक्षं दर्शयत | विषयी कः । नोपाधिमात्रम् | जडत्वात् । न चिन्मात्रम् | सकत्तविषयविरक्तत्वात् । नोपहितम् । उभया- नतिरेकात् । एवं ज्ञानस्यैवाभावे ज्ञातुः कथा दूरे । तथा च वृत्तिरियं कथमविद्यानिवर्तिका । यो हि “अहं ब्राह्मणः जानामि करोमि भुज्ये” इति पूर्वमनुभूतवान् स चेत् “शुद्धचैतन्यरूपांऽहम् | न मद् व्यतिरिक्तं किञ्चि- दस्ति" इति जानीयात् तस्य पूर्वानुभूतः सर्वो मिथ्याविषयो निवर्तेत । लोके हि यः शुक्तिरजतं पश्यति स पश्चात् शुक्तिं तत्त्वेन पश्यन् अनेन