पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ विशिष्टाद्वैतांसद्धिः तेषामेवानुकम्पार्थ महमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ इति । तस्मान्नात्र साक्षात्कारः पृथगुपाय उक्तः । नापि भक्तेस्तत्र विनि- योगः । भक्तिरेव तु मुक्तिसाधनम् । तत्र द्वारमीश्वरप्रसादः । सेयं भक्तिः अहरहरभ्यासेन परिपाकवती दर्शनसमानाकारा भवति । एतदवस्थेयं साक्षात्कार इत्येवाचार्यैर्व्यवयिते । यदेयमेवं भवति तदा प्रभृति उत्तर- पूर्वाधयोरश्लेषविनाशौ । प्रारब्धावसाने अचिंरादिना मार्गेण व्योम प्रातस्य परिपूर्णब्रह्मानुभवः, यस्यान्तो नाम्ति । स एव मोक्ष इति सर्वमनवद्यम् । इति विशिष्टाद्वैतसिद्धौ फलसिद्धिर्नाम चतुर्थः परिच्छेदः । नमः सकलकल्याणहेतवे भवसेतवे । नित्याय निरवद्याय शब्दाय पुरुषाय च ॥ श्रीवासतातार्यपदारविन्द- स्रुतं मधु स्वादु निपीय भूयः । मत्तेन चित्तेन तव स्मरामि न चेदहं तद् भगवन क्षमस्व ॥ यद्रामानुजपुत्रसम्मितसुधीवंशेऽविगन्तुं जनं यत्प्रज्ञाश्रुतशीलवृत्तविभवोदारान् गुरून् सेवितुम् । यच्छास्त्राणि बहूनि भाग्यमभवत् प्राप्तुं प्रवक्तुं च मे तत्स्मेमं परिणाममञ्चति विशिष्टाद्वैत सिद्धचात्मना । श्रदूषि न द्वेषवशेन किञ्चि अनुज्झता दनार्जवेनाभिहितं न किचित् । तदीक्षणीयम् ॥ नीतिपथं यदुक्तं चतुथः तथाविधैरेव