पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 24 ) भक्तीयुक्तं भवति । तथा च प्रबोधात् प्राक् ईश्वराभाव एवेत्यभ्यु गच्छति तत्र भवान् । किमेवं वेदान्तशास्त्रं बोधयति । न हि कालि काठ्याप्यवृत्ति ईश्वरस्य ईश्वरस्वमिति श्रुतिराह । निर्विकारवस्य सर्व- विधपरिच्छेद्रराहित्यस्य च श्रवणात् । ननु संसारस्वं यद्यपि प्रम ’बोधादस्ति तथाऽपि तस्य मिथ्याभवात् ईश्वरत्वमक्षतमिति चेत् तर्हि जीवाभावात् अधिकार्शिन्यं शास्त्रमनर्थकं स्यान् । संसार्यात्मा हि जीवः । तस्य वस्तुतः संसारित्वविरहे जीव एव नास्तीति हि पर्यव स्यति । मिथ्याभूतमेव संसारित्वं जीवस्वमापादयतीति चेत् अनीश्व रस्वमतपाद्यतीत्येवोक्तं भवति । जीवत्वेश्वरत्वे हि मिथो विरुद्धं । तथा च एकात्मवदे ईश्वराभावो वा जीवभावो व प्रसज्यमानो दुष्परिहरः । तदेवं प्रमाणयुक्तिरहितं तद्विरुद्धं च अद्वैतम । अत एव तद्रक्षणं अशक्यम् । श्रीशङ्कर इदं सम्यग् वेद । तथापि विरन्तनसमीचीन वेदान्तदर्शनसम्प्रदायस्य तदानीं मन्दप्रचुरत्वात् तं ज्ञातुमवसरमा भमानःअन्योन्यविजयसंरब्धैः प्रबलैः सौगतैनैयायिकैश्च अनुसृतया न्यसंयपद्धत्या वेदान्तदर्शनस्य लोके अत्यन्तविलयमाशङ्क्य सन्त्रस्तः कथमपि तद्रक्षणीयमिति कृतदृढसङ्कल्पश्च धीरः श्रोशङ्करः गौडपादोष ज्ञातैव वसारणिः तदनुगुणेति मन्यमानः तदनुसारेण प्रवचनं प्रन्थांश्च चकार । अन्ये च बहवः तमन्वगच्छन् । भास्कराचार्यस्तु शङ्करानुसृतं पन्थान अत्यन्तमनुपपन्न पश्यन् स्वयमन्यदेव भेदाभेददर्शनं प्रादुर्भावयामास । लोके तस्य आदरोऽस्यल्पोऽभूत् । एवं यादवप्रकाशदर्शनस्यापि । अथ ब्रह्मसूत्र- वृतिकारभगवबोधायनप्रभृति प्रवृत्तं, विशिष्टाद्वैतवेदान्तदर्शनं चिरा नुवृत्तं यदा कालदैध्र्यात् निलीनमिव बभूव तद श्रीश८कोपमुनिशष्यः ओमंन्नाथमुनिः प्रवचनेन ग्रन्थकरणेन च तत्पुनः प्रावर्तयत् । तस्य पौत्रेण