पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वशिष्टाद्वैतसिद्धिः [ ३४ : ३५ प्रायं स्फुटमुक्त्वा निराकरोति भाष्यकारः न ह्यरूपाया इति । अत्र युक्ति:- यथाभूतवाद हि शास्त्रमिति | अत्र यदाह शास्त्री – स्याद्रूपमित्यस्य पूर्वपक्षत्वं 'रूपं वा' इत्यस्य सिद्धान्तत्वमित्यनुपपन्नम् | उत्तरत्र अकृतत्वबोधकशब्दाभावात्, इति, तद् वाक्यव्युत्तदारिद्रचनिबन्धनम् | अकृतकत्वं यथा तत्र गम्यते तथोपपादितं प्राक् । अन्यदाह दार्जन्यात् "रूपञ्चातीन्द्रियमित्येव पाठः | वाकारः परंग समतानुगुण्याय कल्पितः । चकारश्च निष्का- सित.” इांत । किं वाक्यमन्था दृष्टी महात्मना, येनैवं सावधारणमुच्यते । चार्वाकः कश्चिदाह – नामिहात्र जुहोति, न सोमेन यजेतेति, अनृतं वदेत्, कलञ्ज' भक्षयेदिति च अस्मत्सिद्धान्तमूलप्रमाणे वेदे स्थितं धूर्ताः श्रोत्रियमानिनः नवं पूर्वत उद्धृत्य परत्र योजयामासुरिति । तस्यायं ज्येष्ठां भ्राता | परमेश्वरस्य रूपादिकं वयमध्यभ्युपगच्छाम इति शङ्कराचार्य- बाक्यानि बहून्थुदाइरन्नाह । अत एव लोकव्यामोहकत्वमद्वैतिनाम् । बौद्धनिराकरणराणि सूत्राणि तथैव व्याख्यायन्ते । तेषामेव तु सिद्धा- न्तोऽङ्मीक्रियते जगांन्मर्थ्यात | अपारमार्थिकत्वेऽपि नासत्त्वं प्राति- भासिकत्वं वेत्युच्यते । विमतं मिथ्या दृश्यत्वात् शुक्तिरूप्यवदिति साध्य- मानं मिथ्यात्वं सगुणब्रह्मणांऽपि तुल्यम् । तच्च त्रैकालिकात्यन्ताभाव- प्रतियोगित्वम् । अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावांतयोगी अंशित्वात् पटान्तरवदिति च तर्कवयापारगश्चित्सुखाचार्यः अनुमानविशेषेणाद्वैतं प्रतिष्ठापयति । तथा च यदा परमेश्वरः उपासकानुमहाय रूपमात्मनः सृजति तदापि तन्नास्त्येव । कथं यथाभूतवादित्वं शास्त्रस्य | स्वच्छाव- शात् रूपसृष्टेः पूर्वं अरूपैव हि देवता । तत्र 'नहारूपाया रूपमुपदृश्यते इांत भाष्यस्य कथं सङ्गतिः । ., हिरण्मयः पुरुष इत्यत्र हिरण्यवकार इत्यर्थे सति कृतकत्वमुक्तं