पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ विशिष्टाद्वैतसिद्धिः [ ३७ : ४२ ‘इत्याशङ्कां मनसि निघाय' इति अनुपपत्त्यधिकरणशिवार्कमणि दीपिका- वाक्ये उक्तः सुसङ्गतो भवेत् । 6÷ श्रीव्यासार्यनिगमान्तमहादेशिककाल एव वाक्यद्रमिडभाप्ययोलुं- प्तत्वे श्रीकण्:स्य तदवलोकनं दर्शनिशीथे पूर्णचन्द्रावलोकनमेव । 'तस्मिन् यदन्तरिति कामव्यपदेशः' इति वाक्यकारोक्त कामशब्दस्य श्रीकण्ठभार्थ्याशवार्कमणि दीपिकापर्यालोचनायां गौण्या वृत्या ब्रह्मै- बाथ इति लाभात् न वाक्यकारग्रन्थविरोधः । न च श्रुतिवायविरोध:" इति गम्भीरं वदन शास्त्रार्थविमर्शमार्गे स्वस्य पङ्गवन्धभावं भूयोऽपि परिपूर्ण प्रकाशयति । "अथातो ब्रह्मजिज्ञासा" इति सूत्रस्थब्रह्मशब्दस्य दिङ्नागधर्मकीर्तिप्रभृतिग्रन्थपयांलोचनाचां गौण्या वृत्त्या शून्यमेवार्थ इति लाभात् अस्मत्सिद्धान्तस्य न ब्रह्मसूत्रविरोधः न च श्रुतिवाक्य- विरोध इति प्रकटसौगतः कश्चन यदि ब्रूयात् तत्र किमुत्तरं प्रतिपद्येत. शास्त्रीति ज्ञातुं नूनं बहवः कुतूहलिनः स्युः | अत्र श्रीकण्ठभाण्यस्वरूपं प्रति वक्तव्यमुच्यते । तन्त्रमात्रसिद्धः केवलनिमित्तकारणमात्रभूतः शिवः प्राचीनैः शैवैः सर्वैरभ्युपगतः | शिव- भक्ताः तदर्चनपरा अपि तथैव तं प्रतिपेदिरे । औपनिषद् निमित्तोपादाना- भयकारणत्वं यस्योच्यते तादृशब्रह्मभावं तस्य नैव ये केचिदपि शैवा मेनिरे। वैदिके मार्गे विष्णोः पारम्यं स्थितम् । यज्ञेषु पूर्णाहुतिहिं तदुद्देश्यिका | वेदान्तेषु च कण्ठोक्तं तस्य सर्वस्मात्परत्वम | कालक्रमेण तत्र विप्रतिपत्तौ जातायां समीचीनैर्न्यायैः प्राज्ञास्तत् प्रतिष्ठापयामासुः । अथापि केषांचित शिवस्यापि वेदान्तवेद्य ब्रह्मभावसम्पादने उत्कण्ठा अजायत । तत्फलमिदं श्रीकण्ठभाष्यम् । अस्य प्रसिद्धिसम्पादनेच्छया कैश्चित् प्रार्थितः चिन्नबोम्मो नाम राजा अप्पय्यदीक्षितं तद्वयाख्यान- करणे न्ययुक्त । कारण विशेषैः क्रमेण तोत्रशैवतां प्राप्तः सः तदङ्गी- कृत्य शिवार्कमणि दीपिकामकरोत् । अस्य खण्डनपरापग्रन्थाः