पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ विशिष्टाद्वैत सिद्धिः [ ३७ : ४० पश्यतु । स तत्र कस्य पूर्वत्वं कस्योत्तरत्वमिति स्वयं निश्चिनुयात् । शास्त्रिो विवेचनपाटवमत्यन्तशून्यम् । 'भोजनं देहि राजेन्द्र घृतसूप- समन्वितम्' इत्यस्य 'माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दवि' इत्यस्य च विशेषं यो न जानाति स मूढः । यो जानाति स नूनं श्रीकण्ठभाष्यस्य भाष्यान्तरस्य च विशेषं जानाति । प्रत्यधिकरणमचमत्कारश्चोतनि । तत्राल्पनेवोदाहरामः । सर्ववेदा- न्तप्रत्ययाधिकरणे उपक्रमे “पूर्वत्र निरूपितो नित्यत्वा दिगुण कस्त्वम्पदार्थः पशुरुपासकः । सर्वज्ञत्वादिगुणकस्तत्पदार्थः पतिरुपास्यः शिवश्च । तदिह कथमुपासनमित्याकाङ्क्षायां नन्निरूपण मुत्तरत्राभिवतते" इति वृत्तं वर्तिष्यमाणं चाह | त्वम्पदार्थतत्पदार्थनिरूपणस्य वृत्तत्वाभि- धानं 'इदानीं विरक्तस्य तत्त्वंपदार्थविवेकार्थं द्वितीयः पाद् आरभ्यते ।' इति तृतीयाध्यायद्वतीयपादारम्भे, द्वितीये पादे 'तत्त्वंपदार्थो परिशो धितौ' इति तृतीयगदारम्भे च कल्पतरूक्तयनुसारि | श्रद्वैते तत्त्वमसिं- वाक्यजन्यपदद्वयलक्ष्यार्थसाक्षात्कारस्य मुख्यमोक्षोपायत्वात् तत्र तथा पदार्थवर्णनं युज्यते । विउिपासनस्यै प्रकारकसाक्षात्कारद्वारा उपायत्वात् जीवपरयोः तत्त्वंपदार्थतया कीर्तनमनपेक्षितमयुक्तं च । केवलं श्रोभाण्यानुस. रित्वप्रच्छादनाय कृतम् । 'कथमुपासनमित्या- काङ्क्षायां तन्निरूपण मिति पादार्थवर्णनमयुक्तम् । नहिं परविद्या प्रकार: तृतीयपादार्थः। इत्थमेवायं चतुर्थपादारम्भेऽपि वदति । 'पूर्वत्रोपपादित: परांवद्याप्रकारः' इति । चतुर्थाध्यायारम्भे तु एतद्विरुद्धमेव भाष्यते - " विचारिताः खलु उपासकांपास्यापासनभेदाश्रमधर्मादयस्तृती- याध्याये । इह पुनश्चतुथाध्याये प्रथमे पादे उपासन प्रकार: निरूप्यते ।” ... इति । अथ 'सर्वेषु वेदान्तेषु दहराद्युपासनं विघीयते' इति विषयनिर्देशं करोति । किं सर्वेषु वेदान्तेषु दृहराद्युपासनं विधीयते ? सर्ववेदान्तप्रत्यय- ।