पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिशिष्टाद्वैतांसद्धिः [ ३७ : ४० अनन्यत्वमुपपादनीयम् । उपपादितं च श्रीभाष्ये । विशिष्टस्य ब्रह्मरणः अद्वैतं विशिष्टाद्वैतम् । निर्विशेषब्रह्मणोऽद्वैतं न वेदान्तप्रतिपाद्यम् । अपि तु चिचिद्विशिष्टस्येति तत्राभिप्रायः । अंशाधिकरणसाध्य म्यांशत्वस्योपपादनाय श्रीभाष्ये 'यथा गवाश्वशुक्र- कृष्णादीनां गोत्वादीनां गोत्वादिविशिष्टानां वस्तूनां गोत्वादीनि विशे षणान्यंशाः, यथा वा देहिनो देवमनुष्यादिदेंहोंऽशः' इति निदर्शनं क्रियते । तत्र विशिष्टाद्वैतमुच्यत इति भ्राम्यन् श्रीकण्ठः शरीरशरी- रिणोः गुणगुणिनोश्च यथा, तथा ब्रह्मप्रपञ्चयोविशिष्टाद्वैतमित्याह । अंशो नानाव्यपदेशादिति सूत्रस्थ चार्थं सर्वथा अजानन् असम्बद्धं भाषते । अंशत्वे हि नानाव्यपदेशः, अन्यथा च व्यपदेशः, उभयं हेतुः । अयं पुनः 'अंशः मूर्त्यैकदेश एव...... इत्यादिषु नानाव्यपदेशात् ।' इति भेद्व्यपदेशमात्रं तत्र पर्याप्तमिव कृत्वा अन्यथा चापीति सूत्रोक्त मै- क्यव्यपदेशरूपं हेतु ऐक्यनिराकरणपरतया योजयति ३४२ यदुक्तमयमात्मा ब्रह्मेत्यादिना ब्रह्मरण एव जीवत्वमिति तत्राह - अन्यथा | तत्त्वमसि, अयमात्मा ब्रह्म, इत्यादिकाद् व्यदेशात् तयोर्जीवब्रह्मणोर्व्याप्यत्र्यापकभावेनानन्यत्वम् । इत्यादिना । भूपालदाक्षिण्येन शैवत्वेन च भाष्यमिदं व्याख्यातुं प्रवृत्तो दीक्षितः अस्य सर्वप्रकारमसौष्ठवं जानन् एवमादिस्यलेषु स्वयं वक्तव्यं किश्चिदुक्त्वा अगत्या प्रविष्टं दुस्सहदुर्गन्ध मेदुरं क्षुद्रवीथीमार्गमिव लङ्घमानः त्वरितमपयाति । 'असदिति चेन्न प्रतिषेधमात्रत्वात्' इति सूत्रे श्रीभाष्योक्तमर्थमजानन अर्थान्तरकथनलोलुपतया परित्यजन् वा श्रीकण्ठः स्वयमेवमभाषत - पुनः शङ्कित्वा परिहरति ।...एवं कार्यकारणयोवलक्षण्यात् कारणे कार्यमसदेव | असा इदमन आसीदिति श्रुतेः, इति चेत् नैवं वाच्यम् । सालक्षण्यनियमप्रतिषेध मात्र परत्वात् श्रुतेः ।