पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ : ४० ] अनुबन्धः अतः कार्यकारणयोर्वस्त्वेकता न हीयत एव । इति । अत्र पुनः शङ्कत्वेत्यनेन पूर्वसूत्रोक्तार्थमनुरजीव्य कृता स्वतन्त्र - शङ्केति प्रतीतिर्भवति । कार्यकारणयोर्वेलक्षण्यादित्यनेन पूर्वसूत्रसाधि- नार्थमृलैवेयं शङ्केति प्रतीयते । अद्वेति श्रुतेरित्यनेन श्रुत्यर्थानिश्चयमूला स्वतन्त्रैवेयं शङ्केति भाति । सालक्षण्यनियमप्रतिपेवमात्रपरत्वात् श्रुते- रित्यनेन श्रुनेर्विवक्षितमर्थमुक्त्या अस्याः श्रु तेरापात प्रतीतार्थंमूला सा शङ्का परिहृता । अस्याः श्रुतेविवक्षितार्थ कथनपरं सूत्रमिति अयं भाष्य- कारो मन्यत इत्यवगम्यते । सर्वमिदं बाधितम् । श्रुतेरत्र सम्बन्धले शोऽनि हि नास्ति । श्रीभाष्ये स्पष्टमिदम् । अतोऽत्र व्याख्याता सङ्गत- भाववर्णनं कथञ्चित् कृत्वा अन्ते इदमाह - श्रु तेरित्यनेन 'दृश्यते तु' इति सूत्रश्रवणं विवक्षितम् इति पूर्वाचार्यैः कलुषितं ब्रह्मसूत्रनेत्रं इत्थं प्रसादयति श्रीकण्ठः । यदयमन्ते श्रीभाष्यानुसारेण “ कार्यकारण- यस्त्वेकता न हीयत एव" इत्याह तत् आरम्भणाधिकरणे ब्रह्मप्रपञ्चयोः व्याप्यव्यापकभावेनानन्यत्वसाधनविरुद्धम् । अस्यानन्यत्वस्यौपचा- रिकत्वात् । वस्तुनोरेकत्वाभावात् । इदञ्चात्र अन्ते वक्तव्यम् । विशिष्टाद्वैतं स्वसिद्धान्त इति, सूक्ष्मचिद. चिद्विशिष्टं ब्रह्म कारणं स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति च श्रीकण्ठे नासवृदुक्तावपि भगवद्रामानुजसिद्धान्तसिद्धं यद् विशिष्टाद्वैतं न तादृश- मनेन प्रतिपाद्यते । पाशुपततन्त्रे यत् स्थितं तदेव वेदान्तसिद्धान् कांश्चि दर्थान् योजयित्वा विशिष्टाद्वैतव्यपदेशेन प्रकाश्यते । 'तथाऽन्यप्रतिषेधात्' सूत्रं नारायणस्य शिवसाम्यनिराकरणपरतया व्याचक्षणः श्रीकण्ठ- 9 आह - सर्वज्ञात् सर्वशक्तिमतः परत्रह्मणः शिवाद् विश्वाधिकात् प्रथमं परप्रकृतिभूता परा शक्तिः प्रादुर्भवति । सा प्रथमभोक्तृत्वदशायां पुरुष उच्यते, यः 'सहस्रशीर्षा पुरुषः' इति श्रूयते । तदात्मनः ३४३.