पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७ : ५८ 5] अनुबन्धः ३६५ कारो बोधायन एव | ग्रन्थश्चैवं व्यान्येयः । बोधायनोपज्ञ स्वमतमाह- शब्दस्यैकरूपत्वमपि न साधीय इति । तदुपज्ञमिदं मतमिति कथं ज्ञायत इत्यत्राह अत्र शात्ररमिति | नन्वत्र उपवर्पमतमुच्यते, न बंधायन- मतमित्यत्राह–वृत्तिकाग्स्य वोधायनस्यैव ह्युपवर्ष इति स्वन्नामेति । अत्र का असङ्गतिः ? कोऽनन्वयः | तस्मात् प्रतिपर्व मौढ्यदौर्जन्ये विना नन्यत् किमपि शास्त्रिका प्रकाश्यत इति तत्त्वमस्मानिरगत्या वक्तव्यं भवति । बोधायनोपवर्मनोरनन्थत्वपक्षोपचे-स्परांऽयं तत्त्वटीकाग्रन्थः । ऋन्यथा श्रुनप्रकाशिऋग्रन्थवदेव स्यात् । इदं ज्ञातु सर्वया अक्षमः शास्त्री | ५७. ननु सेश्वरमीमांसायामुपवर्षं खण्डयति श्रीवेटनाः । स चेतू बांधायन एव, भगवद्द्बोधायनेति श्रीभाष्यकार बहुमतस्य तस्य खण्डनं कथमयं कुर्यादिति चेत् स्वस्यात्वन्तबहुमतस्य सूत्रकारस्य खण्डनं श्रीशङ्करा यथा करोति तथेति ग्रहणे कः क्लेराः। प्रानशिक इति दृढगृहीतार्थविपये प्रतीपभाषिणां महतामपि मतं प्रौडा कार्या निरस्यन्ति । परन्तु प्रैढिवाद इति [अन्वारुह्यवाद इति ब्रु वाणा आत्मनो विनयं रक्षन्त्येव । न तेषां तिरस्कारे अल्पाऽपि मनिः । थोपवर्षस्य विंशतिलक्षणीवृत्तिकारत्वेन प्रसिद्धत्वात् तस्यैव बोधायनत्वे 'बोधायनो विशतिलणी मीमांसां व्याख्यांदांत वृद्धा विदा- मासुः' इति वृद्धांत या तद् ज्ञायत इति सेश्वरमीमांसाचां साधनं क्रिम- र्थम॑ति चेत् श्रूयत म् । उपवर्षस्य तथात्वं कुतः प्रसिद्धम् ? न हि शबर- कलाद्नन्तरं उपवपवृत्तिः प्रचारं अवर्ततत्यत्र किञ्चित् प्रमाण- मस्ति । शबरशङ्करोक्तचें व तत्प्रसिद्धिरिति चेन् तदेवोक्तं श्रीदेशिऋचरणैः 'वृद्धा विदामासुः' इत्यनेन | बौधायननाम्नैव तस्य तश्कृतिकारत्वं प्रार्चनैरन्यैत्रन्थकारैः स्वग्थेषूक्तं स्यात् । तच्च कर्णेपरम्च या श्रयमाण- मभिप्रेत्य वृद्धा विदामासुरित्युक्तम् ।