पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ ] ३६३ उपदिशा॑न्त । तस्य लक्षण जगज्जन्मस्थितिलयकारत्वम् । परन्तु इद्- मन्यच्च परब्रह्म नक्षणं बहुत्र श्रूयते । इन्द्रसोमसूर्यादिषु । अथाप्येषां सृष्टिवचनात यागेन वा अपर्यवसानवृत्त्या वा एषां शब्दानां परब्रह्मा- भिधायित्वं वक्तव्यं भवति । अत इन्द्रादीनां न परब्रह्मता । एवमेव रुद्रस्थापि | सृष्टिश्रवणात् । विष्णो: सृष्टिश्रवणं अवतारपरम् | अजाय- माना बहुधा विजायन इति श्रुत्यैत्र विवरणात् । न च शिवस्य अवताराः केनचिदिष्यन्ते ज्ञायन्ते वा । न ब्रह्मा नेशान इति प्रलयं तद्भावश्चा- मनायते । न च भगवत एवं क्वचिदसत्त्वश्रवणमस्ति । नारायणानुवा- केन, अग्निरवमा देवतानां विष्णुः परम इत्यनेन च कण्ठोक्त्या भगवतः परत्वं सिद्धम्। साक्षादुपादान कारणस्यैव परब्रह्मभाव मुपनिषदः श्रावयन्ति । तन्त्रोक्तं शिवनारम्यं वैदिकं चिकीर्षन्ताऽपि साक्षादुपादानत्वं शिवस्य नेच्छन्ति | सृज्यमानो रुद्रोऽन्यः । परमेश्वरो रुद्रोऽन्यः । अयं विष्णु- द्वारा आदानांमति कल्पयन्ति । उपादानव्यतिरिक्तः परो नास्तीति ओपनिषदः सिद्धान्तः । अतो रुद्रस्य परत्वश्रवणं इन्द्रादिपरत्वश्रवणव- दुपपद्यत इति रुद्रान्तरकल्पने न किञ्चित् प्रमाणमस्ति । तस्मात् विष्णु- रेव परं तत्त्वमिति महर्षीणां सर्वेषां प्राचामाचार्याणां च एकः सिद्धान्तः । अनुबन्धः “गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ " इति योगप्राध्यात् परमपदस्थात् अन्यः अर्वाचीन देवो रुद्र इति स्ष्ट्रमाह' याज्ञवल्क्यः। न चायं सिद्धान्तः यैः कैश्चिद्प्यन्यथाकर्तुं शक्यः । एवं तत्त्वनिर्णयं कृतवन्तः प्राज्ञाः तत्प्राप्तिरूपपरमपुरुषार्थकां- क्षिणां तदनुरूपां वृत्तमनि व्यवस्थापयामासुः । तदवगमाय वृद्धहारीत- स्मृतिश्लांका इमे इहोदाहियन्ते - २६