पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० विशिष्टाद्वैतसिद्धिः [ ७४ : ८५ वृद्धानां मुखान् पूर्वग्रन्थेभ्यो वा तत्रत्यानि सूत्राणि कानिचित् अध्या- यानामर्थाच स्वग्रन्थेषु न्यबध्नन । अतः अन्ते हरौ तदर्शनादित्यादीनि सूत्राणि देवताकाण्डस्थानी त्येतत् 'स्त्ररूपमादौ इत्युक्ता: देवताकाण्डा- ध्यायार्था इत्येतच सूपपन्नम् | इमेच प्रपञ्चहृदये संवादमृच्छन्ति । यस्तु यथाशीलं प्रपव्वहृदयस्याप्रामाण्यप्रतिपादनप्रयासः शास्त्रिणः स मुधा । यदुच्यते विरुद्धबहुविधपाठभेदयुतं तदिति तत्रोक्तं अपेक्षितप्रामा- एयांशे न स पाठभेदो विरोधीति । एतेन विरुद्ध नानार्थबोधकं तदित्येत- दपि प्रत्युक्तम् । अपेक्षितांशे प्रामाण्यवघटकविरोधवरहात् । यदृष्य- ज्ञातनामधेयेन कृर्तामति तत् अज्ञातकर्तृकत्वस्य श्रप्रामाण्यानापादऋत्वा-- दनुपपन्नम् । यास्कनिरुक्त व्याख्येयस्य पदसमाम्नायस्य तैत्तिरीयप्राति शाख्यस्य च कर्ता क इति न ज्ञायते । तौ च सर्वैरत्यन्तमाहतौ महा- मन्थौ । यच्च आधुनिकेन कृतमिति तत्र आधुनिकत्वमेव प्रमा हेतुश्चेत् भवतः सर्वं वाक्यं अप्रमाणमिति स्वयमभ्युपगतं भवता । अप्पय्यदीक्षितादिभ्यश्चिरप्राचीनः स इत्यत्र च न सन्देहः । श्रीशङ्करं भगवत्पादेति व्यवहरन् सः अद्वैती । विशिष्टाद्वैतभिः स जातसमागम इत्यत्र न किश्चित् प्रमाणम् । अतो यदुत्प्रेक्ष्यते 'प्रायशः तदनुसारेण देवताकाण्डप्रमेयं प्रपञ्चहृदये उपवर्णित मिति तद्भवतः श्रप्रामाणि- कार्थ कल्पनाशीलत्वस्यापरं निदर्शनम् । अत्र देवताकाण्डप्रमेयवर्णन- प्रकार: वस्तुतः स्वतन्त्रमूलान्तरानुसारित्वं सुस्पष्टमावेदयति । अन्यदिदमत्यन्तमवधेयम् । अखण्डं कूश्माण्डं अपिघातुमिच्छति शास्त्री । माण्डूक्योपनिषत्कारिकाविवरणे "अग्नीन्द्रादयो देवास्तत्फ- लदातारः, नेश्वरस्तथा, इति देवताकाण्डीयाः” इत्यानन्दगिरिणा उक्तं देवताकाण्डपदमपि प्रसिद्धं सङ्कर्ष काण्ड मेवाभिप्रैति । न पराभिमतं देवताकाण्डमिति बोध्यम् ।' इत्याह । किमानन्द गिरिवाक्यादेवं बो