पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 33 ) ० 4c इति । अत्र आरम्भे ‘तत्र प्रमाणप्रदर्शनार्थमुत्तराधिकरणमित्यर्थः ’ इति भयाथ य उक्तः सः “न त्वनुमानप्रामाण्यादिति व्यवस्थापयितुं .... इदमधिकरणमरभ्यते’ इत्यनेन निरस्तः। न हि प्रमाणप्रदर्शनार्थमिदम- धिकरणम् । अमिं तु प्रमाणान्तरप्रतिषेधार्थम् । अयं प्रतिषेधः सूत्रात् कथं लभ्यते । शास्त्रस्येव प्रमाण्वादित्यवधारणगर्भवात्। अनुमानस्या प्रमाणत्वादिति सूत्रार्थः ५यवस्यति । अयं हेतुः ब्रह्म जगज्जन्मादिकरण मिति प्रतज्ञया साक्षात् नान्वेति । अनुमानप्रमितार्थविषयतया यतो चेत्यादि शास्त्रं कारणे ब्रह्मणि न प्रमाणमिति ह्याक्षेपः । तत्परिहाराय इदं शस्त्रं तत्र प्रमाणं भवत्येव अनुमानस्य तत्राप्रमाणत्वात् , इत्यु च्यते । शास्त्रप्राधान्येन प्रदर्शितोऽय प्रयोगः तद्देद्यत्रह्मप्राधान्येन कारणं ब्रह्म यतो वेत्यादिशास्रवेद्य तदितरप्रमाणागम्यत्वात् , इति यदि प्रद- श्र्यते तत्र को दोषः। अतः ‘ननु शाश्वयोनित्वं प्रमाणान्तरवेद्यत्वात् ‘ब्रह्मणो न सम्भवति । । ब्रह्मण’ ‘‘यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव । कुतः । शास्त्रंक्रप्रमाणत्वाद् ब्रह्मणः । इति श्रीभाष्ये सूत्राभिप्रेतपूर्वोत्तरपक्षप्रदर्शनं निरवद्यम् । तदनुसायैव ‘अत्र जगत्कारणं ब्रह्म शास्त्रैकगम्यम् , उत प्रमाणान्तरेणापि गम्यमिति सन्देहः । ” इति श्रीकण्ठभज्ये सन्देहकोटिद्वयप्रदर्शनमपि । तस्मादत्रापि दोषमात्रेण दूषणसंरम्भः । रागातिश्रूयेन दूषणीयदूषणे औदासीन्यम् । न परं तत्र औदासीन्यं, पोषणे आदरश्चेति सुग्रहं धीमताम् । कृष्णानन्दयतिः स्वकये सिद्धान्तसिद्धजननाम्नि ग्रन्थे श्रीभाष्य खण्डनसंरम्भं प्रदर्शयति । पदे पदे क्रोधदोषप्रज्वलितमनाः श्रीभाष्यकारं निन्दति । अनेन क्रियमाणे परपक्षदूषणे स्वपक्षभूषणे वा सामञ्जस्यं अतिदुर्लभम् । लोकक्षेमङ्करस्य वैदिकमार्गस्य आत्यन्तिकलोपप्रसजक 99