पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] अनुबन्धः ४०६ निर्देशायागात् । किन्तु शठकोपकृतं यद् द्राविडगाथासहस्रं तद् द्रमिड- भाष्यम् | तस्य कर्ता शठकोप एव द्रमिडभाष्यकृत् । अस्मिंश्च महती भक्तिर्यामुनाचार्यस्य । प्रतीक्रग्रहणपूर्वकं ब्रह्मसूत्राणां विवरणा करणेऽपि तत्तात्पर्यस्य गम्भीरतया विवरणकरणात् गाथासहस्रं तद्भाष्यं भवतीति समेने | 'विवृतानि च तानि ( ब्रह्मसूत्राणि ) परिमितगम्भीरभाषिणा द्रमिडभाष्यकृता? इति ह्याह यामुनाचार्यः | सूत्राणां साक्षाद्भाष्यमिद्- मिति हि प्रतीयते । वाक्यभाष्यग्रहणे 'वितश्रवादी स्याद्यामुनाचार्यः | यदि च वाक्यभाष्यकार एवेहाभिप्रेतः स्यात् तर्हि तदीयं वाक्यं किञ्चिद् ग्रन्थे उदाहृतं स्यात् । तद्भावात् स नाभिप्रेत् इति स्पष्टम् । शठकोप- वाक्यमपि एकमपि नांदाहृतमिति युक्तम् । तस्य द्रविडभाषामयस्य संस्कृतग्रन्थे उदाहरणानौचित्यात्- इति । अस्मत्सम्प्रदायबाह्यानां बुद्धिवैपरीत्यस्य ईदृशमुदाहरणान्तरं मृग्यम् । केपुचिदपराधेषु जिह्वाच्छेदं कशाघातं च दण्डं विद्धांत । दैवात् एवमादिकिञ्चित्करणे वयमत्यन्तमशक्ता इति प्रमोदामहे । अन्यथा हि 'यथाशक्ति निगृह्णीयात् देवतागुरुनिन्दकान्' इति तादृशे घोरे कर्मरण॒ प्रवर्तयितुं पर्याप्त पारुष्या इमा दुरुक्तयः। ननु भो द्रमिडा- चार्य इति वक्तव्ये मिडभाष्यकृदित्युक्तिर्भावगर्भेति गाढमवगाह्य उच्यते । 'रामानुजभाष्यकार:' ( ६६. पु ) इति, 'रामानुजभाष्यकारैश्च' ( १०६. पु ) इति च वदतस्तव को भावः । किं रामस्यानुजं भाष्यं किञ्चित् । तत्कर्तेति । द्रमिडभाष्यमिति ग्रन्थस्य रूढं नाम | अतस्तत्ऋ- त्वेन आचार्य निर्दिशन्ति । भवानीपतिः मृडानीपतिरित्यादिवत् तत्र कुर्कैल्पनायाः कोऽवकाशः ? बाधितं च शठकोपार्थत्वम् । न हि शठकोप- गाथासहस्रं कस्यचिन्मूलग्रन्थस्य भाष्यमित्यस्मत्सम्प्रदाये कैश्चि- दिष्यते । अपितु वेद इति उपनिषदिति च । तथा च नाथमुनिकृतः मधुर कविस्तुतिश्लोकः- २७