पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ ] अनबन्धः ४१५ तथा स मेने, इति कल्पयित्वा प्राकू बहवोचत् । अथाद्य यामुनाचायः यत् तथा आह तन्न युक्तम् । स्वतन्त्रग्रन्थ एव शठकोपद्राविडग्रन्थः, न ब्रह्मसूत्रभाष्यमिति तस्य खण्डनं करोति । अन्य प्याकुलं बहु जल्पति । उभयमीमांसेत्यत्र मीमांसाशब्दोऽवयवपरः । उभयी मीमांसेति । उभयविधा मीमासेति वा विवक्षा । अत एव हि कर्मकाण्डः ब्रह्मकाण्ड इति व्यवहारः । अत एव चोभयोरैकशास्त्र्यम् । नैवं उभयवदान्त इत्यत्र । न हि संस्कृतकाण्डः द्राविडकाण्ड इति व्यवहारोऽस्ति । अतो- ऽत्र पार्थक्यमेव, उपनिषदामन्योन्यमिव तत्र एकप्रबन्ध्यस्य कः प्रसङ्गः । गुरुपरम्पर।श्लोके ब्रह्मसूत्रका रव्यासादीनामप्रवेशे न्यूनतां पश्चत । गुरुत्व पन्थकारत्वं च नैकम् | गुरुपरम्परायां अन्वेषां कथं प्रवेशः स्यात् । अधीयमानमहाग्रन्थकारा अपि वन्दनीया एव । वन्द्यन्ते च । “सम्यडू न्यायकलापेन महता भारतेन च । उपबृंहितवेदाय नमो व्यासाय विष्णवे। इति श्रृ॰ प्र॰ आरम्भे स्थितःलाः श्रीभाष्याध्ययनकाले सबै- रेवानुसन्धीयते । ‘विभूषणं मौनमपण्डितानां' इत्येतद् विस्मृत्य शब्दा- यते शास्त्री | - ६५. पूर्वं ६१ तमे पर्वणि अद्वैतभाष्ये प्राचीनवृत्तिग्रन्थविरोधान् श्रीभाष्यकारैः प्रदर्शितान् प्रति श्रीवत्साङ्कमिश्रवृत्तिविरोधा इमे नास्माभिः परिहरणीयाः इति गभीरमुक्तवानपि “कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः” इत्युक्तरीत्या पुनस्तत्र चापलं करोति । ‘संहितमेत- छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः' इति वृत्ति - मन्थबोधितं पूर्वोत्तरमीमांसयोरेकशास्त्रत्वं अभ्युपगतमेवास्माभिः । अतो न तद्विरोध इत्याइ । एवं वदन्नेव 'भगवत्पादभाष्यटकियोरपि प्रौढ्या तद्भ्युपगतमेव’ इत्युपस्करोति । परमार्थत एव तत्र तद्भ्युपगतम् | अप्पय्य- दीक्षितः तद्विपर्यासे अभिनिविष्टः । एवमेकशास्त्रत्वे स्थिते अथ कर्मविचारानन्तरं ब्रह्मजिज्ञासा' इत्यानन्तर्यार्थत्व मथशब्दस्य स्वरसतः