पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ विशिष्टाद्वैतसिद्धिः [ ६५ 1 सिद्धर्थात । इदं तु नेष्टम् । अत इदं प्रतिषेधन्नाह - ऐकशास्त्र्यस्याभ्यु- पगमेऽपि न कर्मवचारानन्तर्यस्य ब्रह्मविचारे प्रसक्तिः । 'भाग्योक्तरीत्या ब्रह्मविचारे कर्मानुष्ठानस्थापेज्ञानियमाभावेन तदप्रसक्तेः' इति परिमले व्यक्तम् ।—इति । अत्र परिमलवाक्ये कर्मानुष्ठानस्येत्येतत् कर्मविचार- स्येति वा कर्मावगमस्येति वा शोधनीयमिति भाति । 'धर्मजिज्ञासायाः प्रागण्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तः' इति भाग्यस्यैवात्र अभिप्रेत- त्वात् । ब्रह्मविचारे कर्मानुष्ठानापेक्षायाः कनाप्यनुक्तत्वाच्च । एकशास्त्रत्वे अथशब्दस्य कर्मवचारानन्तर्याथत्वं स्वरसतः प्राप्नोति । परन्तु करिष्य- माणस्य ब्रह्मविचारस्य नियमेन तद्पंक्षाविरहात् तदानन्तर्यपरत्वं परि- त्यज्यते । कर्मवचारात् पूर्वमपि ब्रह्मविचारस्य कर्तुं शक्यत्वात तद्पेक्षा नास्तीति हि स्पष्टमेतत् । एवं प्रथममुक्तवान् परिमलकार एव अपेक्षा- नियममुपरि स्वयं दर्शयत- ननु सगुणज्ञानानन्तरं तदुपासनानिष्ठस्य कर्मानुष्ठानं सम्भ- बति । फलभूयस्त्वार्थं सहकारित्वेन तदपेक्षितं च भवति । तत्रैव चाचार्यैः अग्निहोत्रादि तु तत्कायांयैव तद्दर्शनादित्यधि- करणे वक्ष्यते । सगुणतदुपासनात् सगुणोपासना फलविचार- चात्रैव शास्त्रे महता प्रवन्धेन करिष्यत । तद्विचारसाध्यं च तदनुष्ठानम् । अतः सगुणोपासनासहकारिकर्मानुष्ठानापक्षितः कर्मावबोध इति तदानन्तर्यमथशब्दार्थः कुतो न भवेत् । इति । कर्मकाण्डोक्तन्यायापेक्षानियमं चास्मदाचार्या आहुः । - कोऽसाबुपयोग इति चेत् | न्यायोपजीवनं तावत् | तथा हि । बाह्यान्तरनिमित्ताप्रामाण्यनराकरणेन प्रमाणलक्षणं तावत् कृत्स्नोपयुक्तम् । भेदलचरणोपजीवी च गुणोपसंहारपादः । तार्ती- याश्च श्रुतिलिङ्गादयः सार्वत्रिकाः । प्रयुक्तिश्च वर्णाश्रमधर्माणां विद्याप्रयुक्तत्वाश्रमप्रयुक्तत्वादिविमर्शे निविशते । गतिचिन्तायां