पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० J , प्राथम्यं, तत्र केनापि लेखकेन लिखितस्य श्लोकद्वयस्य शाङ्करत्वमित्यादि- कल्पनासाम्राज्ये परिवर्तत शास्त्री | एकस्या एव काश्चिदुपनिषदः पद्भाष्यं वाक्यभाष्यमित्युभयमस्ति । अतः सूत्रभाष्यस्य वाक्यभाष्यत्व- मित्येतदनुपपन्नम् | यथा चायमर्थः सर्वेषां वेदान्तानामिति सूत्रभाष्य- वाक्ये 'उपनिषद्भाध्यमुखेन च विवृत्तो योऽयमर्थः' इति शास्त्रिणा योज्यमानोऽर्थो नैव प्रतीयते । स्वकीयमुनस्कारमप्रामाणिकं नापेक्षते तवाक्यमति ज्ञातुमर्हति सः । उपनिषद्भाष्याणां पूर्वप्रणांतत्वे वक्तव्ये व्याख्येयानामुपनिषदां भाष्यं प्रथमम् व्याख्यानभूतानां सूत्राणां भाष्यं पश्यादित् ुचितमिति औचित्यं हेतुतया वक्तुं युक्तम् । किमनया कुक्ल्प- नया | उपनिषद्भाप्येषु तैत्तिरीयभाष्यं प्रथमगित्यति प्रमाणान्तराभावे शास्त्रिणः कुकल्पनैवेत्यवसैयम् । प्रसिद्धक्रमानुरोधे ईशावास्यं प्रथमम् । महत्त्वप्राधान्याद्यनुरोधे छान्दोग्यं बृहदारण्यकं वा । तैत्तिरीयप्राथम्यस्य तु कः प्रसङ्गः । यत्तु श्लोकद्वयं, तस्य भगवत्पादकृतत्व प्रत्याशा न कार्या । अद्वैनस्थापनधुरन्धरस्य, जीवस्य शुद्धचैतन्यात्मकब्रह्माभेद निरूपणेदम्प- रस्य तस्य वस्तुतो भेद्गर्भस्य नमनस्य ग्रन्थारन्भे निवेशने औचित्य- लेशस्यःपि विरहात् । तदन्यैस्तु स्वस्य व्यवहारदशानतिलङ्घित्वपर्या- लोचनेन तादृशमङ्गलनिवन्धनात् । श्लोकस्वरूपमेव अन्यकर्तृकत्वं प्रख्यापयति । पारमार्थिकं हि कारणत्वं धारकत्वं च प्रथमश्लोक आह तृतीयपादे च पूग्णक्लेशमनुभूतवता कविना एवकारो व्यर्थः प्रयुक्तः न च श्री शङ्करे एतदुभयं सम्भाव्यते। द्वितीयश्लोके च सर्ववेदान्त- व्याख्यातारो गुरवा नम्यन्ते । किं नाम शङ्कराचार्येभ्यः प्राक् सर्ववेदान्त- ग्योख्यातारः केचन गुरव आसन, यानेते नमस्कुर्युः । पुस्तकस्वामिनो लेखका वा स्वयमुपनिषत्प्रतिपाद्यं कारणत्वं पुरस्कृत्य दैववन्दनं सर्वोप- निष द्राव्य कारशङ्कराचार्ये वन्दनं च कृत्वा श्लोकद्वय पुस्तके व्यक्तिखन् । एतद्विवेचनालमर्थोऽयं "महिप: प्रसूनः" इति वाचं श्रुत्वा 'साधु | ।