पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 39 ) A re 9 इति । व्यवहारदशायामपि संसार्यन्यशुद्धब्रह्मभावापातत् ।” इति च । एवमन्या अपि दुरवस्था आपतन्त्यः सोढव्या एवेति ज्ञापयन् धीरं त्रबीति— जीवैक्यस्य प्रमाणसिद्धत्वे संसारोपतम्भ एवातः पूर्वं तत्वज्ञाना जुपत्तौ प्रमाणम् । न च तत्त्ववित्वेन श्रुत्यादिसिद्धानां शुकवामदेवा दीनां मुक्तिर्नाभूत् । मम तु भविष्यतीति कथं श्रद्दध्यादिति याच्यम् । शास्त्रप्रामाण्यदाढर्यादिति गृहाण । अन्यथा तेषां महा नुभावानां मुक्तस्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्ति प्रतिबन्धापत्तेः । ननु तहि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीव भेदः पूर्वमपि केषाञ्चिन्मोक्षश्चाभ्युपेयताम् । श्रूयते हि-"तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवन् , तथषीणांतथा मनुष्या णम्’, ‘अजो ह्य को जुषमाणोऽनुशेते जहात्येनां भुक्तभोगाम- जोऽन्यः ।” “‘नित्यो नित्यानां चेतनश्चेतनानां ” इत्यादि । स्मर्यते च 'बहवो ज्ञानतपसा पूता मद्भावमागताः। ” “इदं ज्ञानपुपाश्रित्य मम साधर्थमागताः । ‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च । इत्यादि-इति चेन्न । उक्तवाक्यानां सर्वलौकिकभ्रमसिद्धभेदानुवाद कत्वेन तत्परत्वाभावात् । जीवैक्यबोधकवाक्यानां च मानान्तरा प्राप्तस्वार्थपरत्वात् । स्त्रष्नन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च । ज्ञानस्तुतिपरणि वाक्यानि नामभेदं प्रमातु’ प्रभवन्ति । तास्पर्य वद्वाक्याविरोधेन अतात्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः। अतीतानागताश्चैव यावन्तः सहिताः क्षणः। ततोऽभ्यनन्तगुणिता जीवानां राशयः पृथक् ।। इत्यादिस्मृतिरपि जीवोपाधिभेदानुवादकतया व्याख्येयाः ।