पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 41 ) “भगवच्चरणारविन्द प्राप्तिरेव मुक्तिः । तद्भक्तिरेव साधनम् । एतदुपदेश तत्परा एवोपनिषदः ।” इत्येव प्रत्ययमकरोत् । स्पष्टतरमिदं मधुसूदनवषये । स हि भगवद्गुणविग्रहनिराकरण समनन्तरमेव भक्तिरसस्यन्दि हृखं पद्यमिदं निबध्नाति— वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुण बिम्बफलाधरोष्ठात् । पूर्णेन्दुसुन्दरमुखादरचिन्दनेत्रान् कृष्ण।परं किमपि तत्त्वमहं न जाने । इति । समस्त कल्याणगुणकरात् साक्षान्मन्मथमन्मथात् भगवते वसु देवात् परं ततोऽनीतं किमपि तत्त्वं निर्विशेषं वस्तु किञ्चिन् न जाने अस्तीति न मन्ये । ननु इयता प्रबन्धेन निरूप्य कथं तदेवेदानीमपहुवे? न । ‘अहं न जाने’ इति मम हि मतमिदानीमुच्यते । कोऽभिप्रायः । पूवाचयः अद्वैतदर्शनं प्रवर्तयामासुः । तस्य दूषणमपरे अकुर्वन् । एष निरसनमिदानीं करोमि । एतावता मम स्वकीयं दर्शनं अद्वैतमेवेति न मन्तव्यमिति । किं तहिं भवतः स्वकीयं दर्शनम् । अत्र तदयमुत्तर मेवमनुसन्धेयम् । परतत्वमुक्तं-कृष्ण एवेति । अचरतत्वमुक्तं-अहमिति । हिंतं मुक्तिस!धनंभर्युक्तः । तद् व्यज्यते पूर्वेण पादत्रयेण । भक्तिर्नाम प्रीति रूपापन्नः स्मृतिसन्तानः। स्वस्य वर्तमानमिमं अभिलपति विशेषणैः। स्वगृहे स्वकर्मकरणपरोऽयमवर्तत । तदा भगवतः कृष्णस्य वेणुना दोऽस्य कणं पपात । सद्यः प्रधाव्य स यत्र अवर्तत तं देशमभजत । तत्र प्रथममस्य वंशीवदनपरौ भगवतः करौ दृष्टिगोचरावभवताम् । ताबनुबभूव ( ततः क्रमेण प्रकोष्ठौ, प्रगण्डौअंसौ, कण्ठः,भुजान्तरमिति दिव्यरूपस्य मध्यभागमन्भवत् । तदाह नवनीरदभादिति । तदनन्तरं अधोभागानुभवः पीताम्बरादित्यनेन व्यज्यते । अथोर्वं प्रसृता दृष्टिः बंशीविभूषितौ करौ पुनरपि गोचरयामास । परं तु तदनुभवस्य