पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 44 } सारं विहाय पदवाक्यविकल्पक्लप्त- नानार्थलक्षणपरीक्षणदुःस्थितासु । सतः कथासु निगमान्तनिगम्यमर्थ मप्यद्य हन्त परिहासपदं वितेनुः ।। तदद्य शुद्धां नयपद्धतिं श्रिता विपश्चितो वेदविनिश्चितेश्वराः । निबन्धनेऽस्मिन् ऋजुनैव वर्मना यदुच्यते तद् विमृशन्तु जाग्रतः । बहुभ्यो वत्सरभ्यः पूर्वं अदैतसिद्धिग्रन्थं अवलोकितवन्तो वयं तत्र कृतं भगवदैश्वर्यनिराकरणं निरस्य समषं तदैश्वर्यं साधनीयमिति सत्या पैश्वर्यसिद्धिं नाम कश्चन ग्रन्थं लेखितुं प्रवृत्ता इति परमतग्रन्थखण्डनेन । तदवलम्बिनां हृदयघ्यथा नोपादनीयेति सा प्रवृत्तिः परत्यक्तेति च इतोऽस्माकं स्मृतिर्भवति । अद्य तु प्रागुक्तरीत्या , बहुभिर्वैतिभिः अकाण्ड एव विशिष्टाद्वैतदूषणसंरम्भवहनात् दर्शनयोः तात्त्विकस्वरूप प्रकाशनं प्राप्तकालं भवतीति इमं ग्रन्थं प्रकाशयामः । क्रोधितुलाशुक्लनवमी । भृगुवासरः। १३-११-१६६४ / प्रबन्ध