पुटमेतत् सुपुष्टितम्
४७
तृतीयोऽङ्कः ।
अश्वत्थामा--कथमियममानुषी वाङ्नानुमनुते सङ्ग्रामावतरणं मम ? । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः, कष्टं कष्टम् ।
दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम् । |
मातुल ! राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।
कृपः--गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसंनिवेशमेव प्रतिष्ठताम् ।
( परिक्रम्य निष्क्रान्तौ ।)
इति तृतीयोऽङ्कः ।