कंचुकप्रवेशेन देहस्य यथा कंचुकप्रवेशस्तथा, सूक्ष्माणामात्मावयवानां सूक्ष्मनाडीप्रवेशेनात्मनोऽपि नाडीप्रवेश उपपद्यत इति भावः ॥ ८३ ॥
तस्य चात्मनः संकोचविकोचशालित्वेन न किंचिन्नियतं परिमाणम् । किं त्वणुत्वमहत्वव्यावृत्तमनियतं परिमाणमस्तीति दर्शयति, न्यूनेति ।
न्यूनाधिकशरीरेषु प्रवेशोऽपि गमागमैः । |
न्यूनाधिकशरीरेषु हस्तिमशकाद्यल्पशरीरेष्वात्मांशानां गमागमरूपचयाप- चयाभ्यां गमनागमनैः प्रेवेशा भवेत् । तेन मध्यमत्वमात्मनो विनिश्चितम् ॥८४॥
आत्मन उपचयापचयौ सावयवत्वमन्तरा न सिध्यतः । नाशस्यावयव व्यापकत्वात्तस्य नाशोऽवश्यंभावीत्यनित्यत्वं प्रसज्येतेत्याह, सांशस्येति ।
सांशस्य घटवन्नाशो भवत्येव तथा सति । |
सांशस्य सावयवस्यात्मनो घटवन्नाशो भवति । एवेति निश्चयार्थे ।
तत्रेष्टापत्तिः कर्तुमशक्येत्याह, तथेति । तथा सति, देहेन सहात्मनोऽपि नाशे,
कृतनाशाकृताभ्यागमयोः कृतस्य पुण्यपापरूपस्य कर्मणः फलस्य भोगमन्तरेण
नाशः,अकृताभ्यागमोऽकृतस्य पुण्यपापादिभिरकृतस्याकस्मिकस्यागमश्चेत्येतयोर्दोषयो
र्वारको निवारकः को भवेत् । एतजन्मन्याचरितयोः पुण्यपापफलयोः फलानुभव
निमित्तमन्यज्जन्म न स्यात्, तदात्मनो भिन्नत्वात्, एतज्जन्मन्यनुभूयमानस्य
फलस्याकस्मिकत्वं च प्रसज्ज्येत । न चैतत्फलस्य कारणं पूर्वजन्मकृतं भवति ।
तदात्मनोऽपि भिन्नत्वात् । नह्यन्येन कृतमन्येनानुभूयते ॥ ८५ ॥
पारिशेष्यान्महत्वं स्थापयति, तस्मादिति ।
तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः । |