१६
जन्मान्तरेऽपि दुस्साधमिति नातिशयोक्तिः । तेष नित्यकल्याणमूर्तिर्विहरत्वनिशं
मे हृदयसीम्नीति परमेश्वरीमभ्यर्थये ।
स्वकं श्रमातिशयमनाकलय्य व्याख्यानस्यास्य संशोधनं गंभीरमुपोद्धातं च
सोत्साहं विरच्य मामतीव बहूकृतवतामस्मद्गोत्रालंकारायमाणानां पितृकल्पानां
श्रीमहामहोपाध्याय कलाप्रपूर्ण वैयाकरणसार्वभौमादि बिरुदांचितानां श्रीताता सुब्बरायशास्त्रिपादमहोदयानां मामकीनामपारां कृतज्ञतामत्र सप्रणामं विज्ञापयामि ।
मय्यतीव सुदृढबद्धादरा सिंहपुरी (नेल्लूरु) संस्कृतकलाशालाध्यक्षाः
विद्याभूषण श्रीगाजुलपल्लि हनुमच्छास्त्रिचरणा: तेनालि संस्कृतकलाशालाध्यक्षाः श्रीजम्मुलमड़क माधवरामशर्माणः गुंटूरु हिंदूहैस्कूल संस्कृतोपाध्याया
व्याकरणविद्याप्रवीण श्रीओरुगंटि नीलकंठशास्त्रिणः अस्सद्दीक्षागुरुपुत्राः साहित्यविद्याप्रवीण श्रीभारतुल नरसिंहशर्माणः अन्ये माननीयाः सुहृद्वरा येऽस्य ग्रन्थस्य मातृकाया आयतीकरणे मुद्रणविधौ परिशोधने च महान्तमपि श्रममपरिगणय्य
साह्यमरीरचंस्ते सर्वेऽपि मत्समर्पिता नुतिततो: स्वीकृत्यानुगृह्णन्त्विमं जनमिति
मुहुर्मुहुरभ्यर्थये ।
तेनालिपुरी विराजमान लक्ष्मीपवर् मृद्रणालयाधिकारिणां श्री पिल्ललमरूरि
लक्ष्मीनारायणार्याणां संस्कृतभाषासेवैकसमर्पितचितानां नितरामात्मीयां कृतज्ञतां
निवेदयामि ।
मुद्रणस्यास्येदं प्रथमतया भ्रमप्रमादजनितानि स्खलितानि ग्रन्थान्तेऽनुबद्व
शुद्धिपत्रमुखेन परिहरणीयानीत्यध्येतृमहाशयेभ्यो विज्ञापयामि ।
ललितारामं (बृंदावनम्)
रायप्रोलु लिंगन सोमयाजी
गुम्टूरु
श्रीचित्रभानु आश्वयुज शु ९
१८-१०-४२