पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१८९
कल्याणपीयूषव्याख्यासमेता

अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्।
अचिन्त्यरचनारूपं मनसाऽपि जगत्खलु ॥ १५० ॥

 ये भावाः पदार्थाः मनसा अचिन्त्यास्तान् तर्केषु युक्तिवादेषु न योजयेत्। तदेवोक्तमभियुक्तैः— “समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः का तवास्ति गतिस्तर्कैर्वस्तुधीव्यवहारयोः" इति । तस्मात्केवलयुक्तिवादेन विचारणा अयोग्येति भावः । प्रस्तुते योजयति अचिन्त्येति । जगन्मनसाप्यचिन्त्यरचनारूपं खलु अचिन्त्यरचनारूपस्यास्य जगतोऽतः केवलयुक्तिवादैर्निर्वचनं, दुश्शकमिति भावः ॥ १५०॥

 अचिन्त्यरचनारूपस्यास्य जगतो बीजं किमित्यत आह, अचिंत्येति ।

अचिन्त्यरचनाशक्तिबीजं मायेति निश्चिनु ।
मायाबीजं तदेवैकं सुषुप्तायनुभूयते ॥ १५१ ॥

 स्पष्टः पूर्वार्धः। तच्च कुत्रानुभूयत इत्यत आह, मायेति । तदेकमनन्यं मायाबीजं तमोरूपं सुषुप्तावनुभूयते ॥ १५१॥

 सुषुप्त्यनुभूतं जगतो मायाबीजं विवृणोति, जाग्रदिति ।

जाग्रत्स्वप्नजगत्तत्र लीनं बीज इव द्रुमः ।
तस्मादशेषजगतो वासनास्तत्र संस्थिताः ॥ १५२ ॥

 यथा बीजे सूक्ष्मांशतो द्रुमो लीन तथा जाग्रत्स्वप्नजगत् जाग्रति । स्वप्ने च यज्जगत्प्रतीयते तत्तत्र सुषुप्तौ लीनं वासनामात्रेण विद्यते । तस्मादशेष- जगतो वासनास्संस्कारास्तत्र मायायां सूक्ष्मांशतया संस्थिताः ॥ १५२॥

 ननु मायाया जगद्बीजत्वसमर्धनाय बीजे वृक्ष इवशेषजगद्वासनारूपेण मायायां लीनमित्युक्तम् । एवं सति सृष्ट्यवस्थायां मायाकल्पितं सर्वमपि जगज्जडरूपमेव स्यात् । एवं च तत्र तत्र परिदृश्यमानं चैतन्यं न घटेतेत्याशंक्य तद्घटयति, येति ।