प्रवृत्त्यभावस्तस्य कार्यम् । एवममी त्रयो वैराग्यस्यासाधारणहेत्वाद्याः। आद्य शब्देन स्वरूपकार्ये गृह्येते ॥ २७८ ॥
अद्य बोधस्य हेत्वादय उच्यन्ते, श्रवणेति ।
श्रवणादित्रयं तद्वत्तत्त्वमिथ्याविवेचनम् । |
श्रवणादित्रयं श्रवणमनननिदिध्यासनानि तद्वत्तत्त्वमिथ्याविवेचनं तत्त्वतो मिथ्यायाः पृथक्करणम् ब्रह्म सत्यं जगन्मिथ्येत्याकारकं ज्ञानमित्यर्थः । पुनर्हृदयस्य ग्रन्थेरनुदयोऽनुत्पत्तिस्तस्य कार्यम् । एवमेते त्रयः क्रमेण बोधस्य हेतुस्वरूपकार्याणीति मताः ॥२७९॥
अनन्तरमुपरतेर्हेत्वादय उच्यन्ते, यमेति ।
यमादिधीर्निरोधश्च व्यवहारस्य संक्षयः । |
यमादिः आदिशब्देन नियमासनप्राणायामप्रत्याहारध्यानधारणसमाधयो गृह्यन्ते । धीनिरोधश्चित्तवृत्तेर्नियमनं, व्यवहारस्य संक्षयो नाशः, नैष्कर्म्यमिति यावत्, एवमुपरतेरेते क्रमशो होत्वाद्याः स्युः । एवं हीत्वादीन्निरूप्य प्रतिज्ञातमसंकरमुपसंहरति, इतीति । इत्येवं तेषामसंकरे भेद ईरित उक्तः ॥२८०॥
वैराग्यबोधोपरमानां मध्ये प्रधानत्वं तत्त्वबोधस्येतरयोस्तु तदुपकारित्वमभिहितमित्याह, तत्त्वबोध इति ।
|
सुलभा पदयोजना । साक्षादितरसहायमनपेक्ष्य। ब्रह्माहमस्मीति ज्ञानस्यैव ब्रह्मभावाप्तिकारणत्वम् । "तमेवं विदित्वातिमृत्युमेति नान्यः पंथा विद्यतेऽयनाये"ति श्रुतेः । (श्वे. ३.८.) साक्षात्फलजनकत्वेन तस्य प्राधान्यम् । "ब्रह्मणो निर्वेदमाया न्नास्त्यकृतः कृतेन" (मुं. १.२.१३) शान्तो दान्त उपरतस्तितिक्षुस्समाहिती