पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२७९
कल्याणपीयूषव्याख्यासमेता

वेदान्तानामशेषाणामादिमध्यावसानतः।
ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत्॥१०१॥

 अशेषाणां सर्वेषां वेदान्तानामादिमध्यावसानत उपक्रमोपसंहारादि- लिंगेभ्यः एकवाक्यतया पर्यालोचनया ब्रह्मात्मन्येव परात्मप्रत्यगात्मनोरभेदबोध एव तात्पर्यमिति धीः श्रवणम् भवेत् ॥ १०१ ॥

 अत्र श्रीचरणाचारं प्रमाणमाह, समन्वयेति ।

समन्वयोध्याय एतत्सूक्तं धीस्वास्थ्यकारिभिः।
तर्कैः संभावनाऽर्थस्य द्वितीयाध्याय ईरितः॥ १०२ ॥

 श्रुतीनामापाततो नानार्थत्वेन भानेऽपि सर्वासां तासामद्वितीये ब्रह्मण्येव समन्वय इति “तत्तु समन्वयादि”ति (१.१.४) सुत्रेणोपक्रम्याविशेषेण बोधकत्व मिति समन्वयाध्याये एतत्सूक्तं सुष्टु समन्वितम् । इदानीं तु द्वितीयं हेतुं निराकरोति, धीति । धीस्वास्थ्यकारिभिः बुद्धेः स्वभावस्थित्यापादकैर्ज्ञेयविषयिका- नुपपत्तिपरिहारपूर्वकासंदिग्धार्थावबोधोपयोगिभिः शास्त्रानुरूपैस्तर्कैर्युक्तिभिरर्थस्य संभावना असंभाव्यत्वनिवृत्तिफलका समन्वितार्थस्य संभावना द्वितीयाध्याये ईरिता साङ्ख्यादिवेदान्तविरोधिमतनिरसनपूर्वकमशेषश्रुतीनामेकवाक्यताप्रदर्शनेन द्वितीया- ध्यायेऽविरोधाध्याय इतीर्यते । तत्र प्रथमे पादे साङ्ख्ययोगकणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहारः कृतः । द्वितीये साङ्ख्यादि- मतानां दुष्टत्वं प्रदर्शितम् । तृतीये पादे पञ्चमहाभूतजीवादिश्रुतीनां विरोधः परिहृतः । चतुर्थे लिङ्गशरीरश्रुतीनां विरोधोऽपसारितः ॥ १०२॥

 विपरीतभावनाप्रदर्शनपूर्वकं तन्निवृत्त्युपायमाह, वह्विति ।

बहुजन्मदृढाभ्यासाद्देहादिष्वात्मधीः क्षणात् ।
पुनः पुनरुदेत्येवं जगत्सत्यत्वधीरपि ॥ १०३ ॥
विपरीतभावनेयं ।

 आदिशब्देन प्राणमयादीतरकोशा गृह्यन्ते । आत्मधीः ते एवात्मेत्याकारका