पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
[तृप्तिदीप
पञ्चदशी

 तदाह अनून इति ।

अनूनो जायते भोगः कल्पितैः स्वप्नवस्तुभिः ।
जाग्रद्वस्तुभिरप्येवमसत्त्यैर्भोग इष्यताम् ॥ १७८ ॥

 कल्पितैर्मिथ्याभूतैः स्वप्नवस्तुभिः स्वप्नेऽनुभूयमानैर्वस्तुभिरनूनः संपूर्णो भोगो जायते । एवमेवासत्यैर्जाग्रद्वस्तुभिरपि भोग इष्यताम् । सत्यत्वाभाववति स्वप्नवस्तुनि भोगदर्शनात् भोगस्य सस्यत्वाभाववद् वृत्तित्वेन व्यभिचरितत्वात् एव- मसत्यवस्तुभिरपि भोगस्य स्वप्ने दर्शनात् तद्दृष्टान्तेनासत्त्यैरपि जगद्रस्तुभिरपि जायमानस्य भोगस्याऽपि न सत्यत्वम् ॥ १७८ ॥

 न ,द्वितीय, इत्याह ।

यदि विद्यापह्नवीत जगत्प्रारब्धघातिनी ।
तदा स्यान्नतु मायात्वबोधेन तदपह्नवः ।। १७९॥

 यदि विद्या जगपहुवीत जगत्स्वरूपं नाशयति तदा प्रारब्धघातिनी स्यात् । प्रारब्धकर्मणो बाधिका स्यात् । जगतो मायात्वबोधेन तदपह्नवः तस्य जगतो नाशो न सिध्यति । जगन्नाशो नास्माभिरभ्युपेयते ॥ १७९ ॥

 एतदर्थमेव प्रपञ्चयति, अनपह्नुत्येति ।

अनपह्नुत्य लोकास्तदिन्द्रजालमिदं त्विति ।
जानन्त्येवानपह्नुत्य भोगं मायात्वधीस्तथा ॥ १८० ॥

 लोका जनास्तदिन्द्रजालस्वरूपमनपह्नुत्य निरसनमकृत्वा इदमिन्द्रजालमिति तु ज्ञानन्त्येव । तथा मायात्वधीः सर्वम् भोगं मायामयमिति ज्ञानं भोगं भोग्यं अनपह्नुत्यैव अविनाश्यैव भवति ॥१८०॥

 ननु विद्यया भोग्ये मिथ्यात्वज्ञानमेव जायते, न तन्नश्यतीति भवदुक्तिः श्रुतिविरुद्धेति शंकितुं तां श्रुतिमर्थतः पठति, यत्रेति ।

यत्र त्वस्य जगत्स्वात्मा पश्येकस्तत्र केन किम् ।