पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
[कूटस्थदीप
पञ्चदशी

यो मोहो विद्यते साऽयं संसारो भ्रमस्वरूप इष्यते ॥ ५३ ॥

 बुद्ध्यादेर्मिथ्यास्वरूपविवेचनया यो ज्ञानी भ्रमोपमर्दनं करोति स एव तत्त्वविद्वित्याह, बुद्धीति ।

बुद्ध्यादीनां स्वरूपं यो विविनक्ति स तत्त्ववित् ।
स एव मुक्त इत्येवं वेदान्तेषु विनिश्चयः ।। ५९ ।।

 स्वरूपम् मिथ्यात्वरूपं, मुक्तस्संसारादित्यर्थः । स्पष्टमन्यत् ॥ ५४ ॥

 ननु सर्वसंसारस्य भ्रममूलकत्वात्तत्कल्पितो जीवोऽपि मिथ्यैव भवति । तथा सति न बंधः। बंधाभावे न बद्ध:। तदभावे कस्य प्रयोजनायायं मोक्ष- शास्त्रारंभ इत्यादिकुतर्का अवश्यं निरस्या इत्याह, एवमिति ।

एवं च सति बंधः स्यात्कस्येत्यादिकुतर्कजाः ।
विडंबना दृढ खंड्याः खंडनोक्तिप्रकारतः ॥ ५५॥

 एवं सति सर्वस्य संसारस्य तदन्तःपातिनो | जीवस्य च मिथ्यात्वे सति । बंधः कस्य स्यात् ? इत्यादिकुतर्कजाः कुत्सितयुक्तिप्रभवाः विडंबनाः परिहासाः खंडनोक्तिप्रकारतः खंडनखाद्योक्तयुक्त्यनुसारतः दृढं खंड्याः परिहर्तव्याः॥ ५५ ॥

पुराणेषु कूटस्थविवेचनाप्रकारवर्णनम् ।

 कूटस्थबुद्ध्यादिभ्यो विवेचने पुराणप्रदर्शिता युक्तीरपि श्लोकत्रयेण दर्शयति, वृत्तेरिति ।

वृत्तेस्साक्षितया वृत्तिप्रागभावस्य च स्थितः ।
बुभुत्सायास्तथाऽज्ञोऽस्मीत्याभाताज्ञानवस्तुनः ॥ ५६ ।।
असत्यालंबनत्वेन सत्यः सर्वजडस्य तु ।
साधकत्वेन चिद्रूप: सदा प्रेमास्पदत्वतः ॥ ५७ ॥
आनंदरूपः सर्वार्थसाधकत्वेन हेतुना ।
सर्वसंबंधवत्वेन संपूर्णः शिवसंज्ञितः ॥ ५८॥