पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७८
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

यावद्यावदहंकारो विस्मृतोऽभ्यासयोगतः ।
तावत्तावत्सूक्ष्मदृष्टेर्निजानन्दोऽनुमीयते ॥ ९८ ॥

 निरोधसमाधेरभ्यासयोगतोऽहंकारः तदादिचित्तवृत्तिर्यावद्यावंद्विस्मृतो भवति विलयं याति तावत्तावत्सूक्ष्मदृष्टेर्निजानन्दो यथार्थभूतो ब्रह्मानन्दोऽनुमीयते । “यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेद् ज्ञानमात्मनि ज्ञानमात्मनि महति नियच्छेतद्यच्छेच्छान्तरात्मनी"ति (कठ.१.३.१३.) श्रुतेर्यावद्यावदभ्यस्तसमाधिवशाच्चित्तसौक्ष्म्यं संपाद्यते तावत्तावदहंकारविस्मरणतारतम्यानुरूपा निजानन्दाभिव्यक्तिर्भवतीत्यर्थः । अयं भावः। अहंकारानाच्छादित एवानन्दो ब्रह्मान्द इति मुख्यतया व्यपदिश्यते । प्रकृतेऽहंकारसद्भावात्तदाच्छादितत्वेन न मुख्यो ब्रह्मानन्दः । अपि तु तद्वासनारूपः । ततो नात्यन्तविलक्षणो निजानन्द इत्यभ्युपेयम् ॥९८॥

समाधौ निजानन्दानुभवकथनम् ।

 सम्पूर्णनिजानन्दावाप्तिः कदा स्यादित्यत आह, सर्वात्मनेति ।

सर्वात्मना विस्मृतस्सन् सूक्ष्मतां परमां व्रजेत् ।
अलीनत्वान्न निद्रैषा ततो देहोऽपि नो पतेत् ॥ ९९ ॥

 अहंकारसर्वात्मना समग्रतो विस्मृतस्सन्, अशेषवृत्तिविरमे सति समाधावित्यर्थः, परमामुत्कृष्टां सूक्ष्मतां व्रजेत् । ननु निद्रायामनुभूयमान आनन्दो मुख्य इत्यभ्युपगतो भवता । तदानीं विद्यमानस्यानन्दस्यापि सर्ववृत्त्युपरतिसमकालतयेदानींतनस्यापि तादृशत्वेन ब्रह्मानन्दत्वमेवास्तु । किमुच्यते पूर्वं निजानन्द इत्याशंक्य भेदं दर्शयति, अलीनत्वादिति । अन्तःकरणस्यालीनत्वात्सर्ववृत्तीनां विलयेऽप्यन्तःकरणस्य विद्यमानत्वादेषावस्था निद्रा न भवति । अन्तःकरणस्य सुषुप्तौ विद्यमानत्वेऽपि तदा कारणे लयेन तदूपेण स्थितौ निद्रेत्युच्यते । अधुना न तस्य कारणे लयः । किंत्वशेषवृत्तिनिवृत्तिरेव। वृत्तिविरमेऽप्यन्तःकरणं स्वस्वरूपेणावतिष्ठते । न तु लयं गच्छति । तदानीमन्तःकरणस्य सत्वे लिंगमाह, तत इति । सुषुप्तावन्तःकरणे विलीने सति देहपातो दृश्यते । ततोऽत्रालीनत्वादेव देहोऽपि नो पतेत् । देहपाताभावेनाविलीनत्वमनुमीयत इति भावः ॥ ९९॥