यमानं जीवचैतन्यं त्वंपदवाच्यार्थः । तत् परोक्षतया प्रतीयमानमीश्वरचैतन्यं तत्पदवाच्यार्थः । इतिशब्दः एवकारार्थः । तथा च वादिभेदसिद्धान्तः अनूदितः । सांख्यमते प्रकृतिर्जगत्कर्त्री, जीवो नानाचेतनः भोक्ता इत्यतः ईश्वर एव नास्तीत्यङ्गीकृतम् । भागवतमते तु 'गुणी सर्ववित्' इति श्रुतेः नित्यगुणविशिष्टात् परमेश्वराविष्णोर्जीवानामुत्पत्तिविनाशवत्त्वेन अनित्यत्वात् स एव भगवान् पारमार्थिकः एक इत्यङ्गीकृतम् । तदुभयवादिसिद्धान्तस्य औपनिषदमते निरस्तत्वात् तदुभयविधया अनिर्देश्या । परमार्थसच्चिदानन्दरूपतया छान्दाेग्यगतदेवताशब्दार्थस्य प्रतिपादनादिति भावः अथवा, तटस्थेश्वरवादिकाणादादिसिद्धान्तवत् व्यवस्थितभेदवज्जीवेश्वररूपतया अनिर्देश्या । भेदव्यवस्थाया एष साधितुमशक्यत्वादिति एतत्तदित्यनिर्देश्या ॥ ॐ एतत्तदित्यनिर्देश्यायै नमः ॥
एकानन्दचिदाकृतिः । एका मुख्या मोक्षरूपत्वेन प्रापित्सिता । आनन्दः सुखम् । चित् चैतन्यं प्रकाशज्ञानम् । आनन्दश्चासौ चिच्च आनन्दचित् एका चासावानन्दचिच्च एकानन्दचित् आकृतिः स्वरूपं यस्याः सा । सच्चिदानन्द-
पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९३
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
ललितात्रिशतीभाष्यम् ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf/page193-806px-%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf.jpg)