पुटमेतत् सुपुष्टितम्
८७
दक्षिणामूर्तिस्तोत्रम् ।
उपासते यं मुनयः शुकाद्याः
निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेश-
मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस-
न्कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षिते ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरनेत्रैरललाटनेत्रै-
रशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रै-
रपूर्णकामैरमरैरलं नः ॥ १४ ॥
दैवतानि कति सन्ति चावनौ
नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे
दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥