२०३
अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिता: कतिपये दिक्षु स्थिताश्चापरे ।
संभर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः
कुर्वाणा: कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥
अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-
रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः ।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना
गच्छन्त: परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ।।
कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-
देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् ।
अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥७॥
नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने
मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोधत्रये ।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं
व्याचक्षाणमुदग्रकान्ति कलये यत्किंचिदाद्यं महः ॥