शब्दापशब्दविवेके
५. अयमाक्रीडः । अत्राक्रोडन्ति च्छात्रा विहरन्ति च लोका अह-
र्मुखे१ ।
९. किं विस्मृतोऽसि यदेभिः समक्रीड: पांसुषुः२ शैशवे ।
७. यो ह्यधीतस्य प्रणाशनमिच्छत्यधन्यः स षण्मासान्ग्रामेऽवतिष्ठेत् ।
८. ब्रह्म सत्यं जगन्मिथ्येत्यातिष्ठन्ति शाङ्कराः ।
९. अमी बालाः खेलन्ति च कूर्दन्ति चोच्छलन्ति चान्योन्यमुपहसन्ति
च रमन्ति च चिराय ।
१०. यो गुरून्नाभ्युत्तिष्ठते सोऽपध्वस्यते३ ।
११. अस्माद् ग्रामाच्छतमुत्तिष्ठते सोऽयमल्पीयानायः ।
१२. इह लोकोऽर्थकामयोरासक्तो धर्मेऽपि नोत्तिष्ठति किमुतापवर्गे४ ।
५. क्रीडोऽनुसम्परिभ्यश्चेत्यत्र चकारेण आङो दोऽनास्यविहरणे इति
पूर्वसूत्राद् आङोनुकर्षणादाक्रीडन्त इत्येव साधु ।
६. क्रीडोनुसम्परिभ्यश्चेति समक्रीडथा इत्येव न्याय्यम् ।
७. समवप्रविभ्यः स्थ इत्यात्मनेपदेऽवतिष्ठतेति साधु ।
८. आडः स्थः प्रतिज्ञाने इति वार्तिकेन प्रातिष्टन्ते इत्येव साधु ।
प्रतिजानते इत्यर्थः ।
९. कुर्द खुर्द गुर्द क्रीडायामेवेति भ्वादिष्वात्मनेपदिनः पठिताः । रमु
क्रीडायामिति च भ्वादिरात्मनेपदी। तेन कूर्दन्ते रमन्ते इति च
वक्तव्यम्।
१०. अत्रोत्पूर्वस्तिष्ठतिरूर्ध्वकर्मणि वर्तत इति उदोनुर्ध्वकर्मरणीत्यस्य
न विषयः । तेन परस्मैपदमेव साधु ।
११. अत्र यद्यपि धातुरनूर्ध्वकर्मणि वर्तते तथापि उद ईहायामिति
वक्तव्यान्नात्रात्मनेपदप्राप्तिः । ईहा चेष्टेत्यनर्थान्तरम् । सा चेह
नास्तीति व्यक्तम् । तेन शतमुत्तिष्ठतीति वक्तव्यम् । उत्पद्यत
इत्यर्थः ।
१२. अत्रोत्पूर्वस्तिष्ठतिरुद्योगे वर्तत इत्यात्मनेपदं युक्तम् । उत्तिष्ठते
उद्युङ्क्ते।१. प्रत्यूषे २. पांसुः प्रायेण बहुत्वे प्रयुज्यते ।
३. धिक् क्रियते । ४. मोक्षे ।