११४ शब्दापशादविवेके
७८. काष्ठं काष्ठेन योधयते, अग्निं जनयिष्य इति च मन्यते ।
७९. इदं ते दुर्वृत्तं पितुः कोपं जनयिष्यते मातुश्च शोकम् ।
८०. धन्यः स माणवको यो वेदे व्याकरणे च समं समुद्यच्छते ।
८१. प्रदीपप्रभा हि बाह्यं तमो नाशयते नान्तरम् ।
८२. अहं तेन पथि समागच्छं चिरं च समलपम् ।
८३. यो हितानि सुहृद्वाक्यानि न संशृणुते स पङ्के गौरिव कालेऽवसी-
दति ।
८४. मुहूर्त्तमिह तिष्ठ, ततः प्रतिष्ठ नाहं त्वामुपरोत्स्यामि ।
८५. सुहृदं देवदत्तमभिक्रुद्धो गुरुरिति तमनुनाथे । मर्षयार्हन् !
इमं प्रथमापराद्धम् ।
८६. आयुषो रागिचित्तस्य वित्तस्य पिशुनस्य च । अथ स्नेहस्य देहस्य
नास्ति कालो विकुर्वतः२ ॥
८७. उषः प्रशंसते गर्गः शकुनं च बृहस्पतिः । अङ्गिरा मन उत्साह
ब्रह्मवाक्यं जनार्दनः ॥
७८. ण्यन्तात्करतृभिप्राये क्रियाफले आत्मनेपदे प्राप्ते बुधयुधनशजनेङ्
इत्यादिना परस्मैपदनियमे योधयति जनयिष्यामीति च साधु ।
७९. जनयिष्यतीत्येव साधु । उक्तो हेतुः ।
८०. समुदाङ्भ्यो यमोऽग्रन्थे इति ग्रन्थपर्युदासात्समुद्यच्छतीत्येव साधु ।
८१. नाशयतीत्येव साधु । उक्तो हेतुः ।
८२. समागच्छम् इत्यत्र गमिराङ्पूर्वो न तु सम्पूर्व इति समो
गम्युच्छिभ्यामित्यनेनात्मनेपदविधेरप्रसङ्गः।
८३. अर्तिश्रुविदिभ्यश्चेत्यकर्मकाच्छ्रुणोतेरात्मनेपदविधिः । अत्र
शृणोति: सकर्मक इति संशृणोतीत्येव साधु ।
८४. समवप्रविभ्यः स्थ इत्यात्मनेपदे प्रतिष्ठस्वेति साधु ।
८५ आशिषि नाथ इत्याशिष्येव नाथतेरात्मनेपदमिति याञ्चायां पर-
स्मैपदेऽनुनाथामीत्येव साधु ।
८६. विकुर्वत इत्यस्य विकारं गच्छत इत्यर्थः । तेन करोतिरत्रा-
कर्मकः । अकर्मकाच्चेत्यनेनात्मनेपदे विकुर्वाणस्येति वक्तव्यम् ।
८७. शंसु स्तुताविति भ्वादिः परस्मैपदी, तेन प्रशंसतीत्येव साधु ।१. उद्योगं कुरुते । २. विकारं गच्छतः ।